Book Title: Nandanvan Kalpataru 2011 12 SrNo 27
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 15
________________ सारस्वतानां मान्यः हेमचन्दः ॥ डॉ. वासुदेव वि. पाठक: ‘वागर्थ' हेम्नः तेजस्विता यत्र, शैत्यं चन्द्रस्य शोभते । जाते तयोश्च संयोगे हेमचन्द्रायितं वरम् ॥ आचार्ये हेमचन्द्रेऽस्ति सारस्वतमहोज्ज्वलम् । गौरवं गूजरातस्य भारतस्य च गौरवम् ॥ मणिकाञ्चनसंयोगः सुवर्णस्य सुगन्धिता । द्विगुणितं हि वैशिष्ट्यं हेमचन्द्रे तथाऽभवत् ॥ स कलिकालसर्वज्ञः नानाशास्त्रविशारदः । मान्यः सारस्वतानां च संस्कृतानां विशेषतः ॥ श्रीसिद्धराजस्य सुज्ञत्वमेव श्रीहेमचन्द्रस्य वप्रसादः। सारस्वतं तेन कृतं प्रदानं भव्या कृता संस्कृतकर्मशोभा ॥ सार-दाः शारदापुत्राः साम्प्रते लोकविश्रुताः । आचार्यों हेमचन्द्रस्तु राजते पूर्णचन्द्रवत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90