Book Title: Nandanvan Kalpataru 2008 00 SrNo 21 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 6
________________ स्वस्ति दृष्ट्वा नन्दनकल्पवृक्षमतुलं नन्दामि हृद्यप्रभं विज्ञं संशयकल्मषापहरणं सन्तोषसन्तानदम् । श्रीमत्पार्थिवमौलिरत्नविलसत्पादस्य नेमिप्रभोर्माहात्म्येन सुवासितं सितयशोहंसालिकीर्णाम्बरम् ॥ पण्डितैः पूजितं लेखनै राजितं भ्राजितं चित्रणैर्वीजितं सज्जनैः । नन्दनालङ्कृति कल्पकं सत्कृति वीक्षमाणो नरो निर्भरं मोदते ॥ कीर्तित्रयी यस्य मूलं स व्याप्नोति जगत्त्रयीम् । श्रीनन्दनकल्पतरुः सर्वाभीष्टफलप्रदः ।। एच्. वि. नागराजराव् 90, 9th Cross, Navilu Raste, Kuvempunagars वाचकानां प्रतिभावः MYSORE वाचकानां प्रतिभावः परमादरणीयाः श्रीविजयशीलचन्द्रसूरिवर्याः । सादरं प्रणतयः । ह्यः 'नन्दनवनकल्पतरुः २०' प्राप्तः । शुभ्राणि स्निग्धानि सुन्दराणि च पत्राणि ! दोषरहितं मुद्रणकार्यम् !! सचित्रा च गुरुवरगाथा !!! अहो रमणीयता अस्य विशेषाङ्कस्य । मम सद्भाग्यं यत् ईदृविधानामुदात्तचरितानां श्रीविजयनेमिसूरीश्वराणां जीवनकथासरितावगाहनम् अनायासमेव सञ्जातम् । भवतां सर्वेषां निर्व्याजस्नेहभाजनतां गतोऽस्मि इत्यनुभूय सुतरां प्रसन्नता सञ्जायते मे मनसि । अनिल र. द्विवेदी ३०३-ऋषि एपार्टमेन्ट्स, २, आनन्द कोलोनी, जामनगरम्-३६१००८ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 146