Book Title: Nandanvan Kalpataru 2008 00 SrNo 21
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 4
________________ प्रास्ताविकम् गुरवो बहवः सन्ति शिष्यहितापहारिणः । व विरलाः सन्ति शिष्याणां हितकारिणः ॥ गुरूणामेव साम्राज्यं प्रभावश्च दरीदृश्येते । अत्याधुनिके पश्चिमे जगत्यपि धर्मगुरूणामेव प्रभुत्वमद्याऽपि । एते हि सर्वमपि जगत् स्वमतीयं कर्तुं | समुत्सुकाः सर्वत्र देशेषु विशेषतश्चाऽविकसितार्धविकसितेषु आफ्रिकीयादिदेशेषु | स्वधर्मस्य प्रचार-प्रसारार्थं सेवामिषेण धर्मप्रसारसंस्था : (Mission) स्थापितवन्त: | सन्त: साम-दानादिप्रकारैर्जनान् स्वमतानुयायिनः कुर्वन्तितराम् । अन्यत्र तु केचन धर्मगुरवो धर्मरक्षार्थं (जेहाद ) धर्मप्रसारार्थं चाऽबुधान् युवजनान् उन्मादिनः कुर्वाणाः सर्वत्राऽऽतङ्कं प्रसारयन्ति । (सद्य एवाऽस्माभिरस्याऽऽतङ्कस्याऽनुभूतिः प्राप्तैवाऽत्र ।) अस्माकमार्यदेशेऽपि तथाकथिता गुरवः श्रद्धालूनन्धश्रद्धालूँश्च जनान् भ्रान्तान् कुर्वन्तः स्वार्थं च साधयन्तो दृश्यन्त एव । यद्यप्येते सर्वेऽपि गुरवो 'वयं जनताहितार्थमेव सर्वं कुर्म' इति ब्रुवाणा | मन्यमानाश्च भवन्ति, स्वहितमनवबुध्यमाना जनाश्चाऽपि एते एवाऽस्माकं हित| काङ्क्षिणो हितकारिणश्चेति मन्वानास्तैरुक्तं सर्वमपि प्रमाणतया स्वीकृत्य तदनुरूप| मेवाऽऽचरणं कुर्वन्ति तथाऽपि वस्तुतस्तु तेषामहितमेव भवति । एवं सत्यपि केचनाऽत्यल्पसङ्ख्याकास्तादृशा अपि गुरवो भवन्ति ये स्व- परभेदमजानाना 'वसुधैव कुटुम्बक' मिति च मन्वानाः सदैव स्वपरहितार्थमेव प्रवर्तन्ते, जनानपि च तदर्थमेव प्रेरयन्ति प्रवर्तयन्ति च । तादृशां गुरूणां सत्त्वादेव जनानां धर्मश्रद्धा परहितबुद्धिश्चाऽद्यपर्यन्तमपि तथैवाऽवस्थिताऽस्ति । शामेवाऽस्माकं परमगुरूणां पूज्यशासनसम्राजामाचार्य भगवतां श्रीविजयने मिसूरीश्वराणामाचार्यपदारोहणशतीवर्षमिदं निमित्तीकृत्यैषा शाख शासनसम्राड्विशेषः - २ इति विशेषाङ्कतया प्रकाशिताऽस्ति । सद्गुरूणां गुणगानेन स्वजन्म कृतार्थं कुर्याम इति । श्रावणशुक्ला पञ्चमी, २०६४ अहमदाबादनगरम् Jain Education International 3 For Private & Personal Use Only कीर्तित्रयी www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 146