Book Title: Kuvalayanand
Author(s): Kashinath Vasudev Khandekar
Publisher: Jagdishwar Mudranalay
View full book text
________________
कुवलयानंदः
पमोनत्यादि । उपमानत्वंचो पमानिरूपकत्वे नविवक्षितत्वम् । तदाश्रयत्वेन विवक्षि तत्वंचोपमेयत्वम् । साधारणत्वं च धर्मस्वारसिकमौपचारिकंबिंबम तिर्विबभावकृतंश्ले षकृतं वस्तुप्रतिवस्तुभावेन समासभेदाश्रयणेनेयनेकधा चित्रमीमांसायां पंचितम् । त त्रस्वर्गगावगाहनस्यतथात्वमौपचारिकंकी तौ तस्य स्वारसिकत्वाभावात् । उपादानादि तिवाचकस्योपादाननिर्देशः । इतरेषांतुशब्देनप्रतिपादनंतदितिर्चितनीयम् । सा धारण्यप्रकारविशेषोपदर्शनायोदाहरणांतरमाह यथावेति । गुणदोषाविति । गुणदो पावर्थात्परस्य गृण्हन्जानन् बुधःपंडितः पूर्वपूर्वनिर्दिष्टंगुणं शिरसा श्लाघते आंदोलिते नशिरसा अभिनंदयति परंपरतोनिर्दिष्टंदो षंकंठे नियच्छतिनिरुणद्धि वाचाकंठाद्व हिर्नोद्घाटयतीत्यर्थः कइव इंदुक्ष्वेडौचंद्रगरले गृहन्नुपाददानईश्वरोहरइव । सोपिहिपूर्व चंद्रशिरसा श्लाघते तत्पूर्वकंधारयति । परंचमरलंकंठे नियच्छतिस्थापयतीति 'क्ष्वेडस्तु गरलंविषमित्यमरः' ।शंकते अत्रयद्यपीति साधारण स्तत्वेनाभिमतोधर्मः गृण्हन शिरसा श्लाघते पूर्वमिसादिनोक्तोयद्यपिनैकोनसाधारणइतियोजना | गृहन्नित्यादिनोक्तएको पिधर्मः साधारणोनेतिवा । यथाश्रुतेसाधारणस्यसाधारणत्वाभावोक्तेरसंगतत्वापत्तेः । साधारण्याभावे हेतुरुपमानइत्यारभ्यइतिभेदादियं तेनोक्तः । समाधत्तेतथापीति । वस्तु गयासाधारण्याभावेपीत्यर्थः । चंद्रगरलयो रियादियथाक्रमं चंद्रगुणयोर्गर लदोषयोचे सर्थः । बिंबप्रतिबिंबभावेनप्रतीयमानसादृश्ययोरुपमानोपमेयधर्मयोर्भिन्नशब्दोपात्त त्वरूपेण अभेदादभेदाध्यवसायात् । एतच्चसाधारणधर्मतेयग्रेतनेनान्वितं । ज्ञानादी त्यादिनाशिरसावहनाभिनंदनयोः कंठस्थापनतद्ध हिरनुद्घाटनयोश्च संग्रहः । गृण्हनिया दीत्यादिनाच शिरसा श्लाघते कंठे नियच्छतीस नयोः संग्रहः । अभेदाध्यवसायादिति अ मेदस्याध्यवसायादाहार्यनिश्चयादित्यर्थः। साधारणधर्मते ती ति । साधारणधर्मत्वाभिमान विषयतेतीत्यर्थः । पूर्वस्मात्पूर्वोदाहरणादितिविशेषइयन्वयः । नचैवं साधर्म्यप्रतीत्युप पाटनेपिवस्तृतस्तदभावात्कथमपमालक्षणसमन्वयइतिवाच्यं । चमत्कार विशेषप्रयोजक साधारणत्वाध्यवसायविषयधर्मत्वस्यैवोपमालक्षणत्वमित्यभिप्रायादिति । लोके बिंबप्र तिबिंबभावव्यपदेशस्य गगनजलाशयादिगतचंद्रादिविषयतयामसिद्धेः कथंप्रकृते तद्व्यप देशइसाशंकायामाह वस्तुतइत्यादि । अभिन्नयोस्तथाध्यवसितयोः पृथगितिभिन्नशब्दे नेत्यर्थः । बिंबप्रतिबिंब भावइति । बिंबप्रतिबिंबभावपदवाच्यमित्यर्थः । समयइति संके तइत्यर्थः ॥ ६ ॥
वयपमानधर्माणामुपमावाचकस्यच ॥ एकद्वित्र्यनु पादानैर्भिन्ना लुप्तोपमाष्टधा ॥ ७ ॥ तडिद्गौरींदुतु

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 202