Book Title: Kumarpalcharitrasangraha New Publication of Shrutaratnakar
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 271
________________ १९२ कुमारपालचरित्रसङ्ग्रहः मेडतकं सप्तवारं भग्नम् । पल्लीकोटस्थाने रुषाऽर्द्रकमुप्तम् । पुरा मालवीयनृपैगूर्जरदेशे प्रासादाः पातिताः । पापभीरुणा श्रीकुमारपालेन तु रुषा मालवके तिलेक्षुपीडनपाषाणयन्त्राणि भग्नानि । भग्नास्ते घाणका अद्यापि स्थाने स्थाने दृश्यन्ते । ततो ववले परराष्ट्रमर्दनः श्रीचौलुक्यनृपः । समायातः श्रीपत्तने । श्रीगुरूणां पादारविन्दान् पर्युपास्ति । सामायिक-पौषधादि करोति । स्वपरदेशेषु नवीनजीर्णोद्धार5 प्रसादकरणेषु महाप्रयत्नमकरोत् । ६६८५. अथ सौराष्ट्रदेशीयेन सउराङ्केन राज्ञा प्रच्छन्नं गृहमध्ये प्रविश्य अजा व्यापादिता । कण्टेश्वर्या देव्या राजे निवेदितम् । तं नृपं विग्रहीतुं श्रीमदुदयनमन्त्रिणं सेनानायकं कृत्वा समस्तकटकबन्धेन प्राहिणोद् राजा । स तु पादलिप्तपुरे श्रीवर्द्धमानं 10 नत्वा श्रीयुगादिदेवं निनंसुः पुरः प्रयाणकाय समस्तमण्डलेश्वरानादिश्य स्वयं श्रीशत्रुञ्जयं जगाम । विशुद्धश्रद्धया स्नात्रपूजारात्रिकादिकं विधाय यावच्चैत्यवन्दनां विधत्ते, तावत् प्रदीपवर्तिमादाय मूषकः काष्ठमयप्रासादबिले प्रविशन् देवाङ्गपूजकैस्त्याजितः । तदनु स मन्त्री समाधिभङ्गात् काष्ठमयप्रासादविनाशाद् देवाशातनां विमृश्य जीर्णोद्धारं चिकीर्षुः श्रीदेवपादानां पुरतो ब्रह्मैकभक्तभूशयनताम्बूलादित्यागादिकानभिग्रहान् जग्राह । यतः15 ५०३. एकोऽपि नियमो येन गृहीतो गृहमेदिना । जिनाज्ञा पालिता तेन भवकूपारपारदा ॥ ततः कृतप्रयाणः स्कन्धावारमुपेत्य तेन प्रत्यर्थिना समरेण सह सङ्गरे सञ्जायमाने स्वसैन्ये भग्ने स्वयं सङ्ग्रामं कुर्वाणो रिपुप्रहारजर्जरितशरीरो मन्त्री रणभूमौ पतितः । स करुणं क्रन्दन् केनापि बुद्धिमताऽङ्गरक्षकेण दुःखकारणं पृष्टः स्वमनसः शल्यचतुष्टयं 20 प्राह-१. आम्बडस्य दण्डनायकत्वदापनं, २. श्रीशत्रुञ्जयप्रासादपाषाणमयनिर्मापणं, ३. श्रीरैवतनव्यपद्यानिर्मापणं, ४. निर्यामकगुरुं विना मम मृत्यु:- इति शल्यचतुष्कमस्ति ममेति श्रुत्वा स प्राह- 'आद्यत्रयं तवाङ्गजो बाहडदेवः कारयिष्यति, आराधनार्थं साधुमानयामी'ति मन्त्रिणं विज्ञप्य स्वयमग्रे गत्वा साधुवेषधरं राजपुत्रमेकं लात्वा समा यातः । तत्समक्षं दशधाऽऽराधनां विधाय, समाधिधीरचित्तः स्वीकृतानशनः श्रीमानु25 दयन: परलोकमसाधयत् । साधुवेषधरोऽपि नेमिदृष्टौ अनशनपरो मृत्वा स्वर्गं गतः । 1. B ०कोट्ट । 2. B अद्यापि सन्ति स्था० । 3. A चालुक्य० । 4. B करणीयेषु । ★ 'अथ सौराष्ट्र' इत्यारभ्य 'विग्रहीतुं' यावत् अथ सुराष्ट्रादेशीयं सउरनामानं विग्राहीतुं Pa प्रतौ । 5. B नन्तुं स पुरः । 6. B •स्त्याजितो वर्तिम् । त० । 7. B सकरुणं । 8. B श्रीशत्रुञ्जये पाषणमयप्रासादनि० । 9. B प्राह-देव । आ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426