Book Title: Kumarpalcharitrasangraha New Publication of Shrutaratnakar
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
३०२
कुमारपालचरित्रसङ्ग्रहः अन्नशाकफलादीनां नियमांश्च विशेषतः । आदास्यते प्रत्यहं स प्रायेण ब्रह्मचर्यकृत् ॥५९।। साधारणस्त्रीन परं स सुधीर्वर्जयिष्यति । धर्मपत्नीरपि ब्रह्म चरितुं बोधयिष्यति ॥६०॥ मुनेस्तस्योपदेशेन जीवाजीवादितत्त्ववित् । आचार्य इव सोऽन्येषामपि बोधि प्रदास्यति ॥६१।। येऽर्हद्धर्मद्विषः केऽपि पाण्डुराह्वद्विजादयः । तेऽपि तस्याज्ञया गर्भश्रावका इव भाविनः ॥६२॥ अपूजितेषु चैत्येषु गुरुष्वप्रणतेषु च । न भोक्ष्यते स धर्मज्ञः प्रपन्नश्रावकव्रतः ॥६३।। अपुत्रमृतपुंसां स द्रविणं न ग्रहिष्यति । विवेकस्य फलं ह्येतदतृप्ता ह्यविवेकिनः ॥६४॥ पाण्डुप्रभृतिभिरपि त्यक्ता या मृगया न हि । स स्वयं त्यक्ष्यति जनः सर्वोऽपि च तदाज्ञया ॥६५।। हिंसानिषेधके तस्मिन् दूरेऽस्तु मृगयादिकम् । अपि मत्कूट-यूकादि नान्त्यजोऽपि हनिष्यति ॥६६।। तस्मिन् निषिद्धपापार्द्धावरण्ये मृगजातयः । सदाऽप्यविघ्नरोमन्था भाविन्यो गोष्ठधेनुवत् ॥६७|| जलचर-स्थलचर-खेचराणां स देहिनाम् । रक्षिष्यति सदा मारिं शासने पाकशासनः ॥६८॥ ये चाजन्मापि मांसादास्ते मांसस्य कथामपि । दुःस्वप्नमिव तस्याज्ञावशान्नेष्यन्ति विस्मृतिम् ॥६९।। दाशार्न परित्यक्तं यत् पुरा श्रावकैरपि । तन्मद्यमनवद्यात्मा स सर्वत्र निरोत्स्यति ।।७०।। स तथा मद्यसन्धानं निरोत्स्यति महीतले । न यथा मद्यभाण्डानि घटयिष्यति चयपि ॥७१।। मद्यापानां सदा मद्यव्यसनक्षीणसम्पदाम् । तत्राज्ञात्यक्तमद्यानां प्रभविष्यन्ति सम्पदः ॥७२॥
15
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426