Book Title: Kumarpalcharitrasangraha New Publication of Shrutaratnakar
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text ________________
३०१
5
कुमारपालचरितवर्णनम्।
अस्मन्निर्वाणतो वर्षशतान्यभय ! षोडश । नवषष्टिश्च यास्यन्ति यदा तत्र पुरे तदा ॥४५।। कुमारपालो भूपालश्चौलुक्यकुलचन्द्रमाः ।। भविष्यति महाबाहुः प्रचण्डाखण्डशासनः ॥४६।। स महात्मा धर्म-दान-युद्धवीरः प्रजां निजाम् । ऋद्धिं नेष्यति परमां पितेव परिपालयन् ॥४७॥ ऋजुरप्यतिचतुरः शान्तोऽप्याज्ञादिवस्पतिः । क्षमावानप्यधृष्यश्च स चिरं मामविष्यति ॥४८॥ स आत्मसदृशं लोकं धर्मनिष्ठं करिष्यति । विद्यापूर्णमुपाध्याय इवान्तेवासिनं हितः ॥४९॥ शरण्यः शरणेच्छूनां परनारीसहोदरः । प्राणेभ्योऽपि धनेभ्योऽपि स धर्मं बहु मंस्यते ।।५०॥ पराक्रमेण धर्मेण दानेन दययाऽऽज्ञया । अन्यैश्च पुरुषगुणैः सोऽद्वितीयो भविष्यति ॥५१॥ स कौबेरीमा तुरुष्कमैन्द्रीमा त्रिदशापगाम् । याम्यामा विन्ध्यमा वार्धि पश्चिमां साधयिष्यति ॥५२॥ अन्यदा वज्रशाखायां मुनिचन्द्रकुलोद्भवम् । आचार्यं हेमचन्द्रं स द्रक्ष्यति क्षितिनायकः ॥५३॥ तद्दर्शनात् प्रमुदितः केकीवाम्बुददर्शनात् । तं मुनि वन्दितुं नित्यं स भद्रात्मा त्वरिष्यते ।।५४।। तस्य सूरेजिनचैत्ये कुर्वतो धर्मदेशनाम् । राजा सश्रावकामात्यो वन्दनाय गमिष्यति ॥५५।। तत्र देवं नमस्कृत्य स तत्त्वमविदन्नपि । वन्दिष्यते तमाचार्यं भावशुद्धेन चेतसा ॥५६॥ स श्रुत्वा तन्मुखात् प्रीत्या विशुद्धां धर्मदेशनाम् । अणुव्रतानि सम्यक्त्वपूर्वकानि प्रपत्स्यते ॥५७।। स प्राप्तबोधो भविता श्रावकाचारपारगः । आस्थानेऽपि स्थितो धर्मगोष्ठ्या स्वं रमयिष्यति ॥५८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426