Book Title: Kumarpalcharitrasangraha New Publication of Shrutaratnakar
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 384
________________ श्रीमद्हेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितप्रशस्तिः । 10 शिष्यो जम्बुमहामुनेः प्रभव इत्यासीदमुष्यापि च, श्रीशय्यम्भव इत्यमुष्य च यशोभद्राभिधानो मुनिः । सम्भूतो मुनिभद्रबाहुरिति च द्वौ तस्य शिष्योत्तमौ; सम्भूतस्य च पादपद्ममधुलिट् श्रीस्थूलभद्राह्वयः ॥१॥ वंशक्रमागतचतुदर्शपूर्वरत्नकोशस्य तस्य दशपूर्वधरो महर्षिः । नाम्ना महागिरिरिति स्थिरतागिरीन्द्रो ज्येष्ठोऽन्तिषत् समजनिष्ट विशिष्टलब्धिः ॥२॥ शिष्योऽन्यो दशपूर्वभृन्मुनिवृषो नाम्ना सुहस्तीत्यभूद्, यत्पादाम्बुजसेवनात् समुदितप्राज्यप्रबोधद्धिकः । चक्रे सम्प्रतिपार्थिवः प्रतिपुर-ग्रामाकरं भारते; अस्मिन्नड़े जिनचैत्यमण्डितमिलापृष्ठं समन्तादपि ॥३॥ अजनि सुस्थित-सुप्रतिबुद्ध इत्यभिधाऽऽर्यसुहस्तिमहामुनेः । शमधनो दशपूर्वधरोऽन्तिषद् भवमहातरुभञ्जनकुञ्जरः ॥४॥ महर्षिसंसेवितपादसन्निधेः प्रचारभागालवणोदसागरम् । महान् गणः कोटिक इत्यभूत् ततो गाप्रवङ्गाहो हिमवगिरेरिव ॥५॥ तस्मिन् गणे कतिपयेष्वपि यातवत्सु साधूत्तमेषु चरमो दशपूर्वधारी । ____15 उद्दामतुम्बवनपत्तनवज्रखानि-वज्रं महामुनिरजायत वज्रसूरिः ॥६॥ दुर्भिक्षे समुपस्थिते प्रलयवद्धीमत्वभाज्यन्यदा, भीतं न्यस्य महर्षिसङ्गमभितो विद्यावदातः पटे । योऽभ्युद्धृत्य कराम्बुजेन नभसा पुर्यामनैषीन्महापूर्यामक्षु सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ॥७॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426