________________
श्रीमद्हेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितप्रशस्तिः ।
10
शिष्यो जम्बुमहामुनेः प्रभव इत्यासीदमुष्यापि च, श्रीशय्यम्भव इत्यमुष्य च यशोभद्राभिधानो मुनिः । सम्भूतो मुनिभद्रबाहुरिति च द्वौ तस्य शिष्योत्तमौ; सम्भूतस्य च पादपद्ममधुलिट् श्रीस्थूलभद्राह्वयः ॥१॥ वंशक्रमागतचतुदर्शपूर्वरत्नकोशस्य तस्य दशपूर्वधरो महर्षिः । नाम्ना महागिरिरिति स्थिरतागिरीन्द्रो ज्येष्ठोऽन्तिषत् समजनिष्ट विशिष्टलब्धिः ॥२॥ शिष्योऽन्यो दशपूर्वभृन्मुनिवृषो नाम्ना सुहस्तीत्यभूद्, यत्पादाम्बुजसेवनात् समुदितप्राज्यप्रबोधद्धिकः । चक्रे सम्प्रतिपार्थिवः प्रतिपुर-ग्रामाकरं भारते; अस्मिन्नड़े जिनचैत्यमण्डितमिलापृष्ठं समन्तादपि ॥३॥ अजनि सुस्थित-सुप्रतिबुद्ध इत्यभिधाऽऽर्यसुहस्तिमहामुनेः । शमधनो दशपूर्वधरोऽन्तिषद् भवमहातरुभञ्जनकुञ्जरः ॥४॥ महर्षिसंसेवितपादसन्निधेः प्रचारभागालवणोदसागरम् । महान् गणः कोटिक इत्यभूत् ततो गाप्रवङ्गाहो हिमवगिरेरिव ॥५॥ तस्मिन् गणे कतिपयेष्वपि यातवत्सु साधूत्तमेषु चरमो दशपूर्वधारी । ____15 उद्दामतुम्बवनपत्तनवज्रखानि-वज्रं महामुनिरजायत वज्रसूरिः ॥६॥ दुर्भिक्षे समुपस्थिते प्रलयवद्धीमत्वभाज्यन्यदा, भीतं न्यस्य महर्षिसङ्गमभितो विद्यावदातः पटे । योऽभ्युद्धृत्य कराम्बुजेन नभसा पुर्यामनैषीन्महापूर्यामक्षु सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ॥७॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org