________________
३०६
5
10
कुमारपालचरित्रसङ्ग्रहः तस्माद् वज्राभिधा शाखाऽभूत् कोटिकगणद्रुमे । उच्चनागरिकामुख्यशाखात्रितयसोदरा ॥८॥ तस्यां च वज्रशाखायां निलीनमुनिषट्पदः । पुष्पगुच्छायितो गच्छश्चन्द्र इत्याख्यायाऽभवत् ॥९॥ धर्मध्यानसुधासुधांशुरमलग्रन्थार्थरत्नाकरो, भव्याम्भोरुहभास्करः स्मरकरिप्रोन्माथकण्ठीरवः । गच्छे तत्र बभूव संयमधनः कारुण्यराशिर्यशोभद्रः सूरिरपूरि येन भुवनं शुभैर्यशोभिर्निजैः ॥१०॥ श्रीमन्नेमिजिनेन्द्रपावितशिरस्यद्रौ स संलेखनां, कृत्वाऽऽदौ प्रतिपन्नवाननशनं प्रान्ते शुभध्यानभाक् । तिष्ठन् शान्तमनास्त्रयोदश दिनान्याश्चर्यमुत्पादयन्; नुच्चैः पूर्वमहर्षिसंयमकथा: सत्यापयामासिवान् ॥११।। श्रीमान् प्रद्युम्नसूरि: समजनि जनितानेकभव्यप्रबोधस्, तच्छिष्यो विश्वविश्वप्रथितगुणगणः प्रावृडम्भोदवद् यः । प्रीणाति स्माखिलक्ष्मां प्रवचनजलधेरुद्धृतैरर्थनीरैरातत्य स्थानकानि श्रुतिविषयसुधासारसध्यञ्च विष्वक् ॥१२॥ सर्वग्रन्थरहस्यरत्नमुकुरः कल्याणवल्लीतरुः, कारुण्यामृतसागरः प्रवचनव्योमाङ्गणाहस्करः । चारित्रादिकरत्नरोहणगिरिः मां पावयन् धर्मराट् सेनानीर्गुणसेनसूरिरभवच्छिष्यस्तदीयस्ततः ॥१३।। शिष्यस्तस्य च तीर्थमेकमवने: पावित्र्यकृज्जङ्गम, स्याद्वादत्रिदशापगाहिमगिरिविश्वप्रबोधार्यमा । कृत्वा स्थानकवृत्ति-शान्तिचरिते प्राप्तः प्रसिद्धि परां; सूरि रितःप्रभाववसतिः श्रीदेवचन्द्रोऽभवत् ।।१४।। आचार्यों हेमचन्द्रोऽभूत् तत्पादाम्बुजषट्पदः । तत्प्रसादादधिगतज्ञानसम्पन्महोदयः ॥१५।। जिष्णुश्चेदि-दशार्ण-मालव-महाराष्ट्रापरान्तं कुरून्, सिन्धूनन्यतमांश्च दुर्गविषयान् दोर्वीर्यशक्त्या हरिः ।
15
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.