________________
३०४
10
कुमारपालचरित्रसङ्ग्रहः तालिकारासकेषूच्चैर्भवत्सु ग्रामयोषिताम् ।। पञ्चशब्देष्वातोद्येषु वाद्यमानेषु सम्मदात् ॥८७।। पक्षद्वये चामरेषूत्पतस्तु च पतत्सु च । नेष्यन्ति प्रतिमां तां चायुक्ताः पत्तनसीमनि ॥८८॥ -त्रिभिर्विशेषकम् ।। सान्तःपुरपरीवारश्चतुरङ्गचमूवृतः । सकलं सङ्घमादाय राजा तामभियास्यति ।।८९।। स्वयं रथात् समुत्तार्य गजेन्द्रमधिरोह्य च । प्रवेशयिष्यति पुरे प्रतिमां तां स भूपतिः ॥१०॥ उपस्वभवनं क्रीडाभवने संनिवेश्य ताम् । कुमारपालो विधिवत् त्रिसन्ध्यं पूजयिष्यति ॥९१॥ प्रतिमायास्तथा तस्या वाचयित्वा स शासनम् । उदायनेन यद् दत्तं तत् प्रमाणीकरिष्यति ॥९२।। प्रतिमायाः स्थापनार्थं तस्यास्तत्रैव पार्थिवः । प्रासादं स्फटिकमयममायः कारयिष्यति ॥९३॥ प्रासादोऽष्टापदस्येव युवराजः स कारितः । जनयिष्यति सम्भाव्यो विस्मयं जगतोऽपि हि ॥९४।। स भूपतिः प्रतिमया तत्र 'स्थापितया तया । एधिष्यते प्रतापेन ऋद्धया निःश्रेयसेन च ॥९५।। देवभक्त्या गुरुभक्त्या त्वत्पितुः सदृशोऽभय ! । कुमारपालो भूपालः स भविष्यति भारते ॥९६।।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org -