________________
३०३
कुमारपालचरितवर्णनम्।
नलादिभिरपि क्ष्मापै तं त्यक्तं न यत् पुरा । तस्य स्ववैरिण इव नामाप्युन्मूलयिष्यति ॥७३॥ पारापतपणक्रीडाकुक्कुटायोधनान्यपि । न भविष्यन्ति मेदिन्यां तस्योदयिनि शासने ॥७४।। स प्रायेण प्रतिग्राममपि निःसीमवैभवः । करिष्यति महीमेतां जिनायतनमण्डिताम् ।।७५॥ प्रति ग्राम प्रति पुरमा समुद्रं महीतले । रथयात्रोत्सवं सोऽर्हत्प्रतिमानां करिष्यति ॥७६।। दायं दायं द्रविणानि विरचय्यानणं जगत् । अङ्कयिष्यति मेदिन्यां स संवत्सरमात्मनः ॥७७॥ प्रतिमां पांशुगुप्तां तां कपिलर्षिप्रतिष्ठिताम् । एकदा श्रोष्यति कथाप्रसङ्गे स गुरोर्मुखात् ॥७८।। पांशुस्थलं खानयित्वा प्रतिमा विश्वपावनीम् । आनेष्यामीति स तदा करिष्यति मनोरथम् ॥७९।। तदैव मनउत्साहं निमित्तान्यपराण्यपि । ज्ञात्वा निश्चेष्यते राजा प्रतिमा हस्तगामिनीम् ॥८०।। ततो गुरुमनुज्ञाप्य नियोज्यायुक्तपूरुषान् । प्रारप्स्यते खानयितुं स्थलं वीतभयस्य तत् ॥८१।। सत्त्वेन तस्य परमाहतस्य पृथिवीपतेः । करिष्यति च सांनिध्यं तदा शासनदेवता ॥८२॥ राज्ञः कुमारपालस्य तस्य पुण्येन भूयसा । खन्यमानस्थले मङ्घ प्रतिमाऽविर्भविष्यति ॥८३॥ तदा तस्यै प्रतिमायै यदुदायनभूभुजा । । ग्रामाणां शासनं दत्तं तदप्याविर्भविष्यति ॥८४॥ नृपायुक्तास्तां प्रतिमा प्रत्नामपि नवामिव । रथमारोपयिष्यन्ति पूजयित्वा यथाविधि ॥८५।। पूजाप्रकारेषु पथि जायमानेष्वनेकशः । क्रियमाणेष्वहोरात्रं सङ्गीतेषु निरन्तरम् ॥८६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org