Book Title: Kumarpalcharitrasangraha New Publication of Shrutaratnakar
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
३०७
त्रिषष्टिशलाकापुरुषचरितप्रशस्तिः ।
चौलुक्यः परमाहतो विनयवान् श्रीमूलराजान्वयी; तं नत्वेति कुमारपालपृथिवीपालोऽब्रवीदेकदा ॥१६॥ पापद्धि-द्यूत-मद्यप्रभृति किमपि यन्नारकायुनिमित्तं, तत सर्वं निर्निमित्तोपकृतिकृतधियां प्राप्य युष्माकमाज्ञाम् । स्वामिन्नुर्व्या निषिद्धं धनमसुतमृतस्याथ मुक्तं तथार्हच्चैत्यैरुत्तंसिता भूरभवमिति समः सम्प्रतेः सम्प्रतीह ॥१७॥ पूर्वं पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशो याञ्चया, साङ्ग व्याकरणं सुवृत्तिसुगमं चक्रुः भवन्तः पुरा । मद्धेतोरथ योगशास्त्रममलं लोकाय च व्याश्रयच्छन्दो-ऽलङ्कृति-नामसङ्ग्रहमुखान्यन्यानि शास्त्राण्यपि ॥१८॥ लोकोपकारकरणे स्वयमेव यूयं, सज्जाः स्थ यद्यपि तथाऽप्यहमर्थयेऽदः । माग्जनस्य परिबोधकृते शलाकापुंसां प्रकाशयत वृत्तमपि त्रिषष्टेः ॥१९॥ तस्योपरोधादिति हेमचन्द्राचार्यः शलाकापुरुषेतिवृत्तम्, धर्मोपदेशैकफलप्रधानं न्यवीविशच्चारुगिरां प्रपञ्चे ॥२०॥ जम्बूद्वीपारविन्दे कनकगिरिरसावश्नुते कर्णिकात्वं, यावद् यावच्च धत्ते जलनिधिरवनेरन्तरीयत्वमुच्चैः । यावद् व्योमाध्वपान्थौ तरणि-शशधरौ भ्राम्यतस्तावदेतत्; काव्यं नाम्ना शलाकापुरुषचरितमित्यस्तु जैन धरित्र्याम् ॥२१॥
15
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426