Book Title: Kumarpalcharitrasangraha New Publication of Shrutaratnakar
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 382
________________ ३०३ कुमारपालचरितवर्णनम्। नलादिभिरपि क्ष्मापै तं त्यक्तं न यत् पुरा । तस्य स्ववैरिण इव नामाप्युन्मूलयिष्यति ॥७३॥ पारापतपणक्रीडाकुक्कुटायोधनान्यपि । न भविष्यन्ति मेदिन्यां तस्योदयिनि शासने ॥७४।। स प्रायेण प्रतिग्राममपि निःसीमवैभवः । करिष्यति महीमेतां जिनायतनमण्डिताम् ।।७५॥ प्रति ग्राम प्रति पुरमा समुद्रं महीतले । रथयात्रोत्सवं सोऽर्हत्प्रतिमानां करिष्यति ॥७६।। दायं दायं द्रविणानि विरचय्यानणं जगत् । अङ्कयिष्यति मेदिन्यां स संवत्सरमात्मनः ॥७७॥ प्रतिमां पांशुगुप्तां तां कपिलर्षिप्रतिष्ठिताम् । एकदा श्रोष्यति कथाप्रसङ्गे स गुरोर्मुखात् ॥७८।। पांशुस्थलं खानयित्वा प्रतिमा विश्वपावनीम् । आनेष्यामीति स तदा करिष्यति मनोरथम् ॥७९।। तदैव मनउत्साहं निमित्तान्यपराण्यपि । ज्ञात्वा निश्चेष्यते राजा प्रतिमा हस्तगामिनीम् ॥८०।। ततो गुरुमनुज्ञाप्य नियोज्यायुक्तपूरुषान् । प्रारप्स्यते खानयितुं स्थलं वीतभयस्य तत् ॥८१।। सत्त्वेन तस्य परमाहतस्य पृथिवीपतेः । करिष्यति च सांनिध्यं तदा शासनदेवता ॥८२॥ राज्ञः कुमारपालस्य तस्य पुण्येन भूयसा । खन्यमानस्थले मङ्घ प्रतिमाऽविर्भविष्यति ॥८३॥ तदा तस्यै प्रतिमायै यदुदायनभूभुजा । । ग्रामाणां शासनं दत्तं तदप्याविर्भविष्यति ॥८४॥ नृपायुक्तास्तां प्रतिमा प्रत्नामपि नवामिव । रथमारोपयिष्यन्ति पूजयित्वा यथाविधि ॥८५।। पूजाप्रकारेषु पथि जायमानेष्वनेकशः । क्रियमाणेष्वहोरात्रं सङ्गीतेषु निरन्तरम् ॥८६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426