________________
१९२
कुमारपालचरित्रसङ्ग्रहः मेडतकं सप्तवारं भग्नम् । पल्लीकोटस्थाने रुषाऽर्द्रकमुप्तम् । पुरा मालवीयनृपैगूर्जरदेशे प्रासादाः पातिताः । पापभीरुणा श्रीकुमारपालेन तु रुषा मालवके तिलेक्षुपीडनपाषाणयन्त्राणि भग्नानि । भग्नास्ते घाणका अद्यापि स्थाने स्थाने दृश्यन्ते । ततो ववले परराष्ट्रमर्दनः श्रीचौलुक्यनृपः । समायातः श्रीपत्तने । श्रीगुरूणां पादारविन्दान् पर्युपास्ति । सामायिक-पौषधादि करोति । स्वपरदेशेषु नवीनजीर्णोद्धार5 प्रसादकरणेषु महाप्रयत्नमकरोत् ।
६६८५. अथ सौराष्ट्रदेशीयेन सउराङ्केन राज्ञा प्रच्छन्नं गृहमध्ये प्रविश्य अजा व्यापादिता । कण्टेश्वर्या देव्या राजे निवेदितम् । तं नृपं विग्रहीतुं श्रीमदुदयनमन्त्रिणं
सेनानायकं कृत्वा समस्तकटकबन्धेन प्राहिणोद् राजा । स तु पादलिप्तपुरे श्रीवर्द्धमानं 10 नत्वा श्रीयुगादिदेवं निनंसुः पुरः प्रयाणकाय समस्तमण्डलेश्वरानादिश्य स्वयं श्रीशत्रुञ्जयं
जगाम । विशुद्धश्रद्धया स्नात्रपूजारात्रिकादिकं विधाय यावच्चैत्यवन्दनां विधत्ते, तावत् प्रदीपवर्तिमादाय मूषकः काष्ठमयप्रासादबिले प्रविशन् देवाङ्गपूजकैस्त्याजितः । तदनु स मन्त्री समाधिभङ्गात् काष्ठमयप्रासादविनाशाद् देवाशातनां विमृश्य जीर्णोद्धारं चिकीर्षुः
श्रीदेवपादानां पुरतो ब्रह्मैकभक्तभूशयनताम्बूलादित्यागादिकानभिग्रहान् जग्राह । यतः15 ५०३. एकोऽपि नियमो येन गृहीतो गृहमेदिना ।
जिनाज्ञा पालिता तेन भवकूपारपारदा ॥ ततः कृतप्रयाणः स्कन्धावारमुपेत्य तेन प्रत्यर्थिना समरेण सह सङ्गरे सञ्जायमाने स्वसैन्ये भग्ने स्वयं सङ्ग्रामं कुर्वाणो रिपुप्रहारजर्जरितशरीरो मन्त्री रणभूमौ पतितः । स
करुणं क्रन्दन् केनापि बुद्धिमताऽङ्गरक्षकेण दुःखकारणं पृष्टः स्वमनसः शल्यचतुष्टयं 20 प्राह-१. आम्बडस्य दण्डनायकत्वदापनं, २. श्रीशत्रुञ्जयप्रासादपाषाणमयनिर्मापणं, ३.
श्रीरैवतनव्यपद्यानिर्मापणं, ४. निर्यामकगुरुं विना मम मृत्यु:- इति शल्यचतुष्कमस्ति ममेति श्रुत्वा स प्राह- 'आद्यत्रयं तवाङ्गजो बाहडदेवः कारयिष्यति, आराधनार्थं साधुमानयामी'ति मन्त्रिणं विज्ञप्य स्वयमग्रे गत्वा साधुवेषधरं राजपुत्रमेकं लात्वा समा
यातः । तत्समक्षं दशधाऽऽराधनां विधाय, समाधिधीरचित्तः स्वीकृतानशनः श्रीमानु25 दयन: परलोकमसाधयत् । साधुवेषधरोऽपि नेमिदृष्टौ अनशनपरो मृत्वा स्वर्गं गतः ।
1. B ०कोट्ट । 2. B अद्यापि सन्ति स्था० । 3. A चालुक्य० । 4. B करणीयेषु । ★ 'अथ सौराष्ट्र' इत्यारभ्य 'विग्रहीतुं' यावत् अथ सुराष्ट्रादेशीयं सउरनामानं विग्राहीतुं Pa प्रतौ । 5. B नन्तुं स पुरः । 6. B •स्त्याजितो वर्तिम् । त० । 7. B सकरुणं । 8. B श्रीशत्रुञ्जये पाषणमयप्रासादनि० । 9. B प्राह-देव । आ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org