________________
कुमारपालप्रबोधप्रबन्धः ।
१९१
निर्णये बहुद्रव्यप्रदानेन परावर्तितं रात्रौ चौलुक्यसैन्यम् । अर्थो हि परावर्त्तयति त्रिभुवनम् । यतः
४९९. दधाति लोभ एवैको रङ्गाचार्येषु धुर्यताम् । आरङ्कशक्रं यन्नाट्यपात्राणि भुवनत्रयी ॥
तृतीयदिने रणकरणसमये सामलमहामात्रेण कलहपञ्चानने गजे पुरः प्रेर्यमाणे 5 तटस्थान् स्वसामन्तान् दुष्टान्निरणैषीत् । कुमारपालः प्रोवाच- 'श्यामल ! किमी उदासीना इव दृश्यन्ते ?' । तेनोक्तम् -'देव ! अरिकृतार्थदानादिति' । ' तव का चेष्टा ?" श्यामलोऽप्याललाप - 'देवाहं कलहपञ्चाननो देवश्चैते त्रयः कदाचिदपि न परावर्त्तन्ते' तर्हि सम्मुखीने दृश्यमाने रिपौ गजं प्रेरय । अत्रान्तरे चारणः प्राह
अन्यस्तु
५००. कुमारपाल मत चिंत करि चिंतिउ किंपि न होई । जिणि तु रज्जु समोपियउं चिंत कॅरेसिई सोई ॥
५०१. अम्हे थोडा रिउ घणा इय कायर चिंतंति । मुद्ध निहालउ गयणयलु के उज्जोउ करंति ॥
अपरः कश्चित्
10
1. B तर्हि तव । 2. B करेस्यई । 3. B हलु । ★ B आदर्शे उत्तरार्धमीदृक्- खूंटा विणु खीषइ नहीं होडि म खूंटा टालि ॥ 4. B लात्वा युद्धाय डुढौके नृपः । रण० । 5. B चिरं । 6. B पिधाय, तं प्रेरयित्वा रण० । 7. A ०दुक्षिप्तकरणं । 8. B कर्षणस्थाने टोप्यां ।
Jain Education International
For Private & Personal Use Only
15
५०२. साहसि जूतउं हैल वहइ दइवह तणइ कपालि । ★ खेडि म खूंटा टालि खूंटा विणु खीषड़ नही ॥
*
I
त्रयाणां लक्षं लक्षं ददौ । तेषां सुशब्दं लात्वा रणभूमौ द्वयोश्चिरैयुद्धम् । आनाकसैन्ये चाहडनाम्ना सुभटेन सिंहनादे कृते कलहपञ्चानने निवर्त्तमाने कुमारपालः सुबुद्धिमान् स्वमुत्तरीयं पाटयित्वा गजकर्णौ पिधाय, रणभुवि विद्युदुत्क्षिप्तकरणं दत्त्वा आनाकगज - 20 स्कन्धमारूढः । करिगुडां छित्त्वा भूमौ पातयित्वा हृदि पदं दत्त्वा - 'रे वाचाट ! स्मरसि वचो मे भगिन्याः ?। पूरयामि तत्प्रतिज्ञाम्, छिनद्मि ते जिह्वा' मित्युवाच । ततः काष्ठपञ्जरे क्षिप्तः । दिनत्रयं स्वसैन्ये स्थापितः । जयातोद्यानि उद्घोषितानि । ततः करुणया पुनः शाकम्भरीपतिः कृतः । उत्खातप्रतिरोपितव्रताचार्यो हि कुमारपालः । अवटुजिह्वाकर्षणं टोप्यां पश्चात् जिह्वाकरणं च । गम्भीरतया स्वभटा नोपालब्धाः । त्यक्तजीविताशास्ते 25 सर्वेऽपि सेवां कुर्वन्ति ।
www.jainelibrary.org