________________
१९०
कुमारपालचरित्रसङ्ग्रहः येन जगदानन्दकारिणी स्वर्णनिष्पत्तिविद्या सिध्यति । अपि च मारिनिवारणजिनमण्डितमहीकरणादिपुण्यैः सिद्धे लोकद्वये किमधिकमभिलषसि ?' इत्यादिश्य तदैव विहारक्रमं कृतवन्तः ।
६६८४. अथ श्रीकुमारपालदेवस्य भगिनी शाकम्भरीशेन चाहुमानवंशेन 5 राज्ञाऽऽनाकेन परिणीताऽस्ति । तयोमिथः सारिक्रीडां कुर्वतोरन्यदा राज्ञा सारिं गृहे
मुञ्चतोक्तम्- 'मारय मुण्डिकान्, पुनर्मारय मुण्डिकान् ।' एवं द्वित्री राजगुरवः श्वेताम्बरा मुण्डिका इति हास्यगर्भोक्तिः । तदाकर्ण्य राज्ञी कुपिता प्राह -'रे जङ्गडक ! किं जिह्लामालोक्य नोच्यसे ? किं वक्ष्यसि, न पश्यसि माम्, न जानासि मम भ्रातरं
राजराक्षसम् ?।' क्रुद्धो राजा पादघातेन तां जघान । साऽप्याह- 'यदि रे तव 10 जिह्वामवडुमार्गेण नाकर्षयामि, तदा राजपुत्रीं मां मा मंस्थाः ।' इति वदन्त्येव सा
ससैन्या निविलम्बं श्रीपत्तनमागत्य श्रीचौलुक्याय तं परिभवं स्वप्रतिज्ञां चाजिज्ञपत् । राजाऽप्यभाषत-'पश्य कौतुकमित्थमेव करिष्यामः ।' ततश्चाऽऽनाकस्तस्यां तत्र गतायां गूर्जरनृपं दुर्द्धरं विदन् क्षुभितः। कुलक्रमायातं स्वसेवकं व्याघ्रराजं दीनारलक्षत्रयं दत्त्वा
भरडकवेषधारिणं श्रीकुमारपालस्य मारणाय प्रेषीत् । एतत्स्वरूपं पूर्वमानाकप्रपञ्च15 परिज्ञानाय भूपतिप्रेषितः प्रधानपुरुषः प्रीतिप्रीणितानाकदासीमुखेन ज्ञात्वा विज्ञप्त्या
श्रीकुमारपालायाज्ञापयत् - 'सावधानैः स्थेयं, भरटकविश्वासो न कार्यः' इति । ततो राजाऽन्यदा लोकव्यवहारेण करणमेरुप्रासादे नवीनं भरटकं प्रधानज्ञापितचेष्टया दृष्टमात्रमेवोपलक्ष्य निजपुरुषैर्बध्वा व्याघ्रसझं प्रकटीकृत्योरुबद्धां च क्षुरिकां प्राह-रे वराक !
जङ्गडकेन प्रेषितोऽसि ?, सेवकस्य विचाराविचारो नास्ति हिताहितस्य । स्वाम्यादेश20 वशंवदस्त्वम्, मा भैषीर्मुक्तोऽसि, तमेव हनिष्यामि, य एवं द्रोहमकरोत् ।' ततः समस्त__ स्वसैन्यपरिवृतः सपादलक्षदेशसीम्नि गतः । श्रीकुमारपालः भट्टेनानाकनृपः प्रोक्त:
४९८. अये ! भेक च्छेको भव भवतु ते कूपकुहरं,
शरण्यं दुर्मत्तः किमु रटसि वाचाट ! कटुकम् ।
पुरः सर्पो दी विषमविषफूत्कारवदनो; 25
ललज्जिह्वो धावत्यहह भवतो जिग्रसिषया ॥ एतदाकाऽऽनाकोऽपि वाजिलक्षत्रयेण पदातिलक्षदशकेन पञ्चाशता गजैः सम्मुखमचलत् । स्वदेशतः पञ्चकोश्या अर्वाक् मेलापकः । तृतीयदिने युद्धं भविष्यतीति
1. B राज्ञाप्य० । 2. B क्षुरिकां दृष्ट्वा प्राह- ।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only