________________
कुमारपालप्रबोधप्रबन्धः ।
१८९ श्रीगुरुः सर्वसम्मतेन स्वयमुपविष्टो राज्ये । तत्क्षणं राज्ञो व्यथा सूरिशरीरे सङ्क्रान्ता । श्रीगुरुव्यथां ज्ञात्वा राजा मनसि दूनश्चिन्तयति४९७. स्वाङ्गदाहेऽपि कुर्वन्ति प्रकाशं दीपिकादशाः ।
लवणं दह्यते वह्नौ परलोकोपशान्तये ॥ श्रीगुरुरुवाच-'राजन् ! मा चिन्तां कुरु, न मे शक्तिमतोऽसुखम् । मूलाच्चे- 5 न्नोन्मूलयाम्येनां तदा मम वंश्यानां स्यात् । ततः
पक्वं कूष्माण्डमानाय्य प्रविश्यान्तः स्वयं गुरुः । तत्र न्यवीविशल्लतां तदैवाभूत् तदन्यथा ॥६॥ उत्पाट्यान्धप्रधौ क्षिप्तं कश्चिन्नोल्ललते यथा । एवं स्वस्थमभूत् सर्वं सूरेः शक्तिरहो स्फुटा ॥७॥
10
६६८२. अथान्यदा श्रीमहावीरचरित्रे वाच्यमाने श्रीगुरुमुखेन देवाधिदेवप्रतिमासम्बन्धं श्रुत्वा राज्ञा वीतभयं पत्तनं गत्वा महतोपक्रमेण देवतासान्निध्येन सा प्रतिमा पूजिता महोत्सवेनानीता । साऽधुना रामसैन्येऽस्तीति लोकोक्तिः ।
६६८३. कदाचित् पृथिवीमानृणाय नृपतिना सुवर्णसिद्धये श्रीहेमाचार्याणामुपदेशात् तद्गुरवः श्रीदेवचन्द्राचार्याः श्रीसङ्घ-नृपतिविज्ञप्तिकाभ्यामाकारिताः । तीव्र- 15 व्रतपरायणा महत्सङ्घकार्यं विमृश्य विधिविहारेण पथि केनापि अनुपलक्ष्यमाना निजामेव पौषधशालामागताः । राजा तु प्रत्युद्गमनादिसामग्री कुर्वन् प्रभुज्ञापितस्तत्राययौ । अथ गुरोः पुरो नृपतिप्रमुखसमस्त श्रावकयुतैः प्रभुभिादशावर्त्तवन्दनकं दत्त्वा तदुपदेशादनन्तरं गुरुभिः पृष्टे सङ्घकार्ये सभां विसW जवनिकान्तरितौ श्रीहेमचन्द्र-नृपती तत्पादयोर्निपत्य सुवर्णसिद्धियाचनां चक्राते । 'मम बाल्ये विद्यमानस्य सतः ताम्रखण्डं काष्ठभारवाहकात् 20 याचितवल्लीरसेनाभ्यक्तं युष्मदादेशाद् वह्निसंयोगात् सुवर्णीबभूव । तस्या वल्लया नामसङ्केतादि आदिश्यताम्' –इति श्रीहेमाचार्यैरुक्तवति कोपाटोपात् श्रीहेमचन्द्रं दूरतः प्रक्षिप्य-'न योग्योऽसीति, अग्रे मुद्गरसप्रायप्रदत्तविद्यया त्वमजीर्णभाक्, कथमिमां मोदकप्रायां तव मन्दाग्नेर्ददामि' इति तं निषिध्य, नृपं प्रति- 'एतद्भाग्यं भवतां नास्ति,
1. B पररोगोप० । 2. B पृथिवीमनृणां कर्तुं नृ० । 3. B गुरोश्चरणयोर्नुप० । 4. B ०पदेशदानानन्तरं । 5. B .चार्ये उक्तवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org