________________
१८८
कुमारपालचरित्रसङ्ग्रहः रात्रौ महाव्यथाऽभूत् । पृष्ठे राजिकाकणोपमः पिट: प्रादुरभूत् । प्रतीकारैरनुपशमने श्रीगुरवः समायाताः । राजानं दुःखार्तं दृष्ट्वा प्राहुः
४९२. सृजति तावदशेषगुणाकरं पुरुषरत्नमलङ्करणं भुवः ।
___ तदनु तत्क्षणभङ्ग करोति चेदहह ! कष्टमपण्डितता विधेः ॥ 5 राज्ञः श्रीगुरुदर्शने क्षणं सुखमभूत् । सूरिः सचिवं प्रत्याह -मन्त्रिन् !
___अपायानामुपायाः स्युर्बहुरत्ना वसुन्धरा ।' . मन्त्री प्राह-भगवन् ! अनुस्वर्णं धातवः, अनुचन्दनं काष्ठानि, तथानुपूज्यान् कलाकोविदाः ।
यथा तमान्तको भानुः सुधा सर्वविषापहा ।
जगत्सञ्जीवनो मेघस्तथा राज्ञो गुरुर्भवान् ।।५।। श्रीगुरुरभ्यधात्-'नात्र मन्त्रतन्त्र भैषज्यप्रभावप्रसरः । किन्तु बुद्धिप्रकारोऽस्ति । यदि राज्यमन्यस्य कस्यापि दीयते, तदा राज्ञः कुशलं स्यात्, परं नायं धर्मः श्रीजिनतत्त्वविदाम् । यतः
४९३. सव्वो न हिंसियव्यो जह महिपालो तहा उदयपालो । 15
न य अभयदाणवइणा जणोवमाणेण होयव्वं ॥ ततोऽस्माकमेव राज्यमस्तु । राजा तु कर्णौ पिधायाभ्यधात्४९४. को नाम कीलिकाहेतोः प्रासादोच्छेदमिच्छति ।
भस्मने भस्मसात् कुर्यात् को हि चन्दनकाननम् ॥ महाराज ! युक्तमेतत् । यदि मम शक्तिर्न भवति । परं20 ४९५. शक्तौ हनूमान् यदबन्धयत् स्वं विष्णुर्दधौ यच्च शिवास्वरूपम् ।
सैरन्ध्रकाकारधरश्च भीमस्तथाहमप्यत्र कृतौ समर्थः ॥ कष्टमपीदं न मम मनसि ।।
४९६. या लोभाद् या परद्रोहाद् यः पात्राद् यः परार्थतः ।
___ मैत्री लक्ष्मी: व्यय: क्लेशः सा किं सा किं स किं स किम् ॥ 25 राजा शनै शनैर्व्यथया शून्यचित्ततामगात् । राजानं विलोक्य सर्वः कोऽपि विधुरोऽभूत् ।
1. B काननम् ॥ गुरुरुवाच - महा० । 2. B शक्तो । 3. B लक्ष्मीय॑यः । 4. B राजानं तथाविधं वि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org ..