SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्धः । १८७ ६६८०. एकदा कर्णमेरुप्रासादाग्रे श्रीगुरवो गताः । तदा वामराशिभरड केनोक्तम् ४८९. यूकालक्षशतावलीवलवलल्लोलोल्लसत्कम्बलो, दन्तानां मलमण्डलीपरिचयाद् दुर्गन्धरुद्धाननः । नासावंशनिरोधनाद्गिणिगिणी पाठप्रतिष्ठास्थितिः; सोऽयं हेमडसेवडः पिलपिलत्खल्लिः समागच्छति ॥ श्रीगुरुभिरुक्तम् -- 'अहो ! गालिरपि न शुद्धा । 'ददतु ददतु गालीलिमन्तो भवन्तः० ।' तच्चरैः राज्ञा श्रुतम् । तस्य वृत्तिच्छेदः कृतः । प्रत्यहं शालायां समायाति । श्रीयोगशास्त्रं पठति । अन्यदा राजा तच्छ्रुत्वा प्राह४९०. आतङ्ककारणमकारणदारुणानाम्, वक्रेषु गालिगरलं निरगालि येषाम् । तेषां जटाधरफटाधरमण्डलानाम्; श्रीयोगशास्त्रवचनामृतमुज्जिहीते ॥ . पुनः श्रीगुरुवचनात् प्रसादः । 15 88८१. अन्यदा सुखसुप्तस्य भूपतेः कापि देवता । निशीथेऽजनि प्रत्यक्षा शामसर्वाङ्गमण्डना ॥१॥ भूपपृष्टाऽवदत् सापि लूताधिष्ठातृदेवता । त्वदङ्गे प्रविविक्ष्यामि पूर्वशापात्तवान्वये ॥२॥ गतायामथ तस्यां स चिन्तार्तोऽभून्नृपः प्रगे । सूरिपृष्टोऽवदत् सर्वं तमूचे सूरिरप्यथ ॥३॥ भाविभावो भवत्येव नान्यथा सोऽमरैरपि । पूर्व कामलदेव्या यत् शापितो मूलभूपतिः ॥४॥ परं पुण्यं कुरु । यतः४९१. दीपो हन्ति तमःस्तोमं रसो रोगभरं यता । सुधाबिन्दुर्विषावेगं धर्मः पापहरस्तथा ॥ 20 1. B गिणिगिणन् । 2. B श्याम० । 3. B भावी भावो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy