SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 5 १८६ कुमारपालचरित्रसङ्ग्रहः एतन्निशम्य श्रीगुरुगिरा द्वासप्ततिलक्षमृतकद्रव्यपत्रं पाटितवान् । केनापि कविना प्रोक्तम्४८२. अपुत्राणां धनं गृह्णन् पुत्रो भवति पार्थिवः । त्वं तु सन्तोषतो मुञ्चन् सत्यं राजपितामहः ॥ अपरेण तु४८३. न यन्मुक्तं पूर्वैरघुनहुषनाभाकभरत प्रभृत्युर्वीनाथैः कृतयुगोत्पत्तिभिरपि । विमुञ्चन् कारुण्यात्तदपि रुदतीवित्तमधुना; कुमारक्ष्मापाल ! त्वमसि महतां मस्तकमणिः ॥ - लक्षमत्रापि । 10 अथ चतुर्थव्रते ४८४. एका भार्या सदा यस्य त्रिधा शीलं घनागमे । दिनं प्रत्येकशो यस्य द्वात्रिंशत् स्तवस्मृतितः ॥ अथ परिग्रहप्रमाणम्४८५. जन्तून् हन्मि न वच्मि नानृतमहं स्तेयं न कुर्वे पर स्त्री! यामि तथा त्यजामि मदिरां मांसं मधोर्भक्षणम् । नक्तं नाद्मि परिग्रहे मम पुनः स्वर्णस्य षट्कोटय स्तारस्याष्टतुलाशतानि च महार्हाणां मणीनां दश ॥ ४८६. कुम्भखारीसहस्त्रे द्वे प्रत्येकं स्नेहधान्ययोः । पञ्चलक्षाश्च वाहानां सहस्त्राण्युष्ट्रहस्तिनाम् ॥ 20 ४८७. अयुतानि गवामष्टौ पञ्चपञ्चाशतानि च । गृहापणसभायानपात्राणामनसामपि ॥ ४८८. एकादशतानीभा रथाः पञ्चायुतप्रभाः । हयैकादशलक्षाश्च पत्तयोऽष्टादशप्रमाः ॥ सैन्यमेलापकप्रमाणम् । साधर्मिकवात्सल्ये त्रुटितधार्मिकस्य दीनारसहस्रदाने श्रेष्ठी 25 आभडो नियुक्तः । वर्षे लेखके कृते एका कोटिर्लग्ना । यावत्तां दापयति तावताऽऽभडेनोक्तम्- 'देव ! द्विधा कोशः स्थावरो जङ्गमश्च । वयं जङ्गमकोशस्थानीयाः' इति जल्पन्निषिद्धः, सर्वं दत्तम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy