________________
कुमारपालप्रबोधप्रबन्धः ।
१८५ मांसास्वादास्तेषां भक्ष्याः ।' इत्याकर्ण्य प्रमुदितः । 'अहो ! प्रभूणां युक्ता 'कलिकालसर्वज्ञता' मानसिकपरिणामोऽपि येषां प्रत्यक्षः' । ततो राजा दन्तपातनसोद्यतः श्रीगुरुभिर्निषिद्धः । कृतघेवरभक्षणनियमः प्रायश्चित्तपदे द्वात्रिंशत् प्रासादानेकस्मिन् पीठबन्धेऽकारयत् । द्वात्रिंशत् प्रकाशान् प्रत्यहं गुणयति प्रत्यूषे ।
६७७. अन्यदा, एकस्मिन् दिने कस्मिन् ग्रामे तैलिकेन रात्रौ यूका हता । 5 कण्टेश्वर्या राज्ञो ज्ञापितः स दण्डितः । तद्रव्येण 'यूकावसतिः' कारिता । पुरा गृहीतेनाखुद्रव्येण 'उन्दिरवसति'श्च । यस्याः करेण पुरा करम्बो भुक्तस्तस्या देवश्रिया नाम्ना 'करम्बावसतिः' । अथ श्रीस्तम्भतीर्थे सामान्ये आलिगवसहिकाप्रासादे यत्र दीक्षाक्षणः प्रभूणां बभूव, तत्र रत्नबिम्बालङ्कृतो निरुपमो जीर्णोद्धार: कारितः ।
६६७८. अन्यदा ब्रह्मकविः कृतकृत्रिमदेवरूपः केनाप्यनुपलक्ष्यमाणः कर- 10 गृहीतलेखपत्रः सभायां समायातः । कृतप्रणामः पृष्टो राज्ञा- 'भो ! कुतः, कस्त्वं समायातः ?' तेनोक्तम्-'देव ! देवेन्द्रेण प्रेषितोऽस्मि, युष्मदन्तिके लेखसमर्पणाय' इत्युक्त्वा लेखं समर्पितवान् । सभायां लेखः प्रस्फोट्य वाचितः । यथा४८०. स्वस्ति श्रीमति पत्तने नृपगुरुं श्रीहेमचन्द्रं मुदा,
स्वःशक्रः प्रणिपत्य विज्ञपयति स्वामिंस्त्वया सत्कृतम् । चन्द्रस्याङ्कमृगे यमस्य महिषे यादस्सु यादःपते
विष्णोर्मत्स्यवराहकच्छपकुले जीवाभयं तन्वता ॥ तस्य राजा लक्षं पारितोषिकमदात् ।
15
६६७९. अन्यदा गुरुभिस्तृतीयव्रताधिकारे - ४८१. दुर्भिक्षोदयमन्नसङ्ग्रहपर: पत्युर्वधं बन्धकी,
ध्यायत्यर्थपतेभिषग् गदगणोत्पातं कलिं नारदः । दोषग्राहिजनस्तु पश्यति परच्छिद्रं छलं शाकिनी; निष्पुत्रं म्रियमाणमाढ्यमवनीपाता हहा वाञ्छति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org