________________
5
10
15
20
कुमारपालचरित्रसङ्ग्रहः
प्रातर्महामहोत्सवेन श्रीगुरुपादारविन्दं वन्दितुं यावद्याति, तावद्धर्मशालाप्रथमप्रवेशे स्त्रीकरुणस्वरं शुश्राव । ततस्तामेव कण्टेश्वरीं मन्त्रयन्त्रितां च पश्यति । तावता सोवाच'राजन् ! मोचापय मां सूरिप्रयुक्तमन्त्रबन्धनात् । तवाज्ञावधिदेशेषु जीवरक्षातलारकत्वं करिष्यामीति' । श्रीगुरुवचसा मोचिता । कवयः सर्वे स्वमतिभिः प्रोचुः -
१८४
४७४. श्रीवीरे परमेश्वरे भगवत्याख्याति धर्मं स्वयं,
प्रज्ञावत्यभयेऽपि मन्त्रिणि न यां कर्तुं क्षमः श्रेणिकः । अक्लेशेन कुमारपालनृपतिस्तां जीवरक्षां व्यधात्; यस्यासाद्यवचः सुधां स परमः श्रीहेमचन्द्रो गुरुः ॥ ४७५. पातु वो हेमगोपालः कम्बलं दण्डमुद्वहन् । षड्दर्शनपशुग्रामं चारयन् जैनगोचरे ॥ ४७६. नाभवद्भविता नैव हेमसूरिसमो गुरुः । श्रीमान् कुमारपालश्च जिनभक्तो महीपतिः ॥ ४७७. राजा लुठति पादाग्रे जिह्वाग्रे च सरस्वती ।
शश्वत् स श्रेयसे श्रीमान् हेमसूरिर्नवः शिवः ॥ ४७८. सप्तर्षयोऽपि गगने सततं चरन्तो,
मोक्तुं क्षमा न हि मृर्गी मृगयोः सकाशात् । जीयात् पुनश्चिरतरं प्रभुहेमसूरिरेकेन येन भुवि जीववधो निषिद्धः ॥
४७९. प्राणित्राणे व्यसनिनां शान्ति सुव्रत - नेमिनाम् । माचार्योऽत्र चातुर्ये तुर्यः किं नु स दुर्युगे ॥
सर्वेषां कवीनां लक्षं लक्षं ददौ ।
Jain Education International
✡
§§७६. अथान्यदा भोजनं कुर्वतो राज्ञा घेवरभुक्तौ किञ्चिद्विचिन्त्य कृतसकलाहारपरिहारः पवित्रीभूयेति प्रभुं पप्रच्छ-'भगवन् ! घेवराः किं भक्ष्या वाऽभक्ष्याः ? ' श्रीगुरुभिरुक्तम् 'राजन् ! भक्ष्या अभक्ष्याश्चेति' । भणितं पुनः 'भगवन् ! 25 भक्ष्याश्चेदभक्ष्याः कथम्, अभक्ष्याश्चेद्भक्ष्याः कथम् ?' | श्रीगुरुभिरभाणि-'राजन् ! ये क्षत्रियादयः पूर्व ज्ञातमांसास्वादास्तेषामभक्ष्याः, ये तु वणिग्ब्राह्मणादयोऽज्ञात
1. B 0 मि' इति वचसा गुरुभ्यो मो० । 2. B प्राणित्राणव्य० ।
For Private & Personal Use Only
www.jainelibrary.org