________________
कुमारपालप्रबोधप्रबन्धः ।
१८३
§§७५. अथामारिं प्रवर्त्तयति राजनि आश्विनशुक्लपक्षोऽगात् । तत्र कण्टेश्वर्यादिदेवतानामर्च्चकैर्विज्ञप्तम्- 'देव ! सप्तम्यां सप्तशतानि पशवः सप्तमहिषाश्च देवतानां पुरो दीयन्ते राज्ञा । एवमष्टम्यामष्टौ शतानि, नवम्यां नवशतानीति' । राजा तदाकर्ण्य श्रीगुरून् समायातान् विज्ञप्तं तत्स्वरूपम् । गुरुवचनमादाय भाषितास्ते - ' देयं दास्यामो वहिकाक्रमेण । रात्रौ देवीनां सद्मसु निक्षिप्ताः पशुमहिषाः । दत्तानि तालकानि । 5 मुक्तास्तत्र रक्षकाः । प्रातः समायातो राजा । उद्घाटितानि तालकानि । मध्ये दृष्टाः पशवो रोमन्थायमानाः । राजा सर्वसमक्षमिदं जगाद - ' भो अबोटिका इमे पशवो मयाऽमूभ्यो दत्ताः, परं न ग्रस्ताः । तस्माद्भवद्भ्य एव मांसं रुचितम्, नामूभ्यः । तत्कथं जीवान् हन्मि । ततस्ते सर्वेऽपि विलक्षा मौनमालम्ब्य स्थिताः । छागादिमूल्येन नैवेद्यानि कारितानि देवीनाम् । महाहिंसादिनं मत्वा राजा नवम्यां कृतोपवासो निशि चन्द्रशालायां 10 दयारसमयः शुभध्याने स्थितः, बहिरारक्षका मुक्ताः । निशीथसमये दिव्यनेपथ्यधारिणी स्त्री प्रत्यक्षा जगाद -‘राजन्नहं तव कुलदेवी कण्टेश्वरी । ऐषमे वर्षे किमिति त्वयाऽस्मभ्यो देयं न दत्तम् ?'। राजोवाच- 'दत्तं मया सर्वम्, परं भवतीभिर्न गृहीतम् । तदहं करुणामयः कथमशरणान् प्राणिनो निहन्मि । ततः सा क्रुद्धा - 'अहो वचसा मामयं विप्रतारयति' - इति त्रिशूलेन राजानं शिरसि हत्वा गता । क्षणान्तरे राजा स्वशरीरे कुष्ठव्रणानि दृष्ट्वा 15 विषण्णोऽभूत् । तदा सद्य उदयनमन्त्रिणमाहूय प्रोवाच- 'मन्त्रिन् ! अद्य देवी प्रत्यक्षा पशून् याचते किं दीयते न वा ?' मन्त्री प्राह- 'राजन् ! अहं किं वच्मि ? परमिति जाने येन केनोपायेन स्वामिरक्षा क्रियते । यतः
४७३. जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खिज्जा । न हु तुंबम्मि विणट्टेअरयासाहारगा हुंति ॥
एतदाकर्ण्य राजा-‘निःसत्त्वो वणिगसि, भक्तिवचांसि एतानि भाषसे । शृणु, आजलधिमेखला खलाः स्वाज्ञां मया ग्राहिताः, सकलार्थिसार्थप्रार्थना सफलीकृता, प्रीणिता सप्तक्षेत्री पवित्रस्ववित्तेन, आराधितः श्रीधर्मः तत्किं मम जीवितेन कार्यम्; केवलं रहः काष्ठानि देहि, येन प्रातर्मामीदृशं दृष्ट्वा लोको श्रीधर्मस्य निन्दां करिष्यति'। मन्त्रि ‘अहो ! महत्कष्टम् । पारवश्यमूलं नियोगं धिगिति क्षणं विमृश्योवाच- 'देव ! पूर्वं 25 श्रीगुरूणां स्वरूपं विज्ञाप्यते ।' राज्ञोक्तमेवमस्तु । तदैव मन्त्री गतः श्रीगुरूणां पदान्ते । निवेदितं तत्स्वरूपम् । क्षणं स्मरणकरणीयं कृत्वा गुरुभिर्जलमभिमन्त्रयार्पितम् । तदाच्छोटनपानमात्रेण राजा सविशेषशरीरशोभाभागभूत् । अत्यन्त श्रीगुरुभक्तिभावितश्च
1. B स्तत्रारक्षकाः ।
Jain Education International
20
For Private & Personal Use Only
www.jainelibrary.org