________________
१८२
_कुमारपालचरित्रसङ्ग्रहः ततो दूनमना निजप्रधानपुरुषा हेमकोटिद्वयं हयसहस्रद्वयं चित्रपट्टमेकं च समर्प्य प्रेषिताः । तैस्तत्र गतैर्बहुद्रव्यव्ययेन कैवर्तकाखेटकादिपट्टकान् कृत्वा तत्कर्म निवारितम् । कालेन राज्ञा जयचन्द्रेण ज्ञातम् । तत्पृष्टा ग्राममहत्तराः । तैः प्रधानपुरुषाः कथिताः । ततो
राज्ञाऽऽहूताः प्रधानपुरुषा जयचन्द्रसभायां गताः । श्रीकुमारपालप्रेषितं हेमकोटिद्वय5 हयसहस्रद्वयचित्रपटादिकं प्राभृतं समर्पितम् । राजा जयचन्द्रो यावत् पट्टमुद्घाट्य पश्यति, तावत्तत्र स्वमूर्ति-श्रीकुमारपालमूर्तिजीवहिंसादिकपापफलं नारकिकच्छेदनभेदनादियातनाकुम्भीपाकवैतरणकूटशाल्मलिवृक्षोल्लम्बनासिपत्रवनप्रवेशनादिकं दृष्ट्वा चित्रस्थं सञ्जातमहापापभयः प्रकम्पमानशरीरः; पुनः पुरः, सम्यग्जीवरक्षादिपुण्यफलं स्वर्गविमानदिव्यदेहदेवाङ्गनादिव्याभरणगीतनृत्यवाद्यविविधक्रीडारूपसौभाग्यशृङ्गारभोगादिकं 10 चित्रस्थं दृष्ट्वा विस्मयस्मेरमनाः प्रधानपुरुषाणां प्रसादमकरोत् । जीवरक्षार्थं श्रीकुमारपालेन
प्रेषिता वयमिति स्वरूपे प्रोक्ते जयचन्द्रनृपः स्वदेशे सर्वत्र जीवरक्षामकारयत् । १८ लक्षजालप्रज्वालनं कृतम्, द्विगुणं च प्राभृतं श्रीकुमारपालाय प्राहिणोत् । पुनरपि मारि: पितापार्श्वमगात् । ततो म्लेच्छकुले गर्जनपुरे दत्ता ।
६६७३. अथ वर्षासु कटकारम्भे नियमिते तद्वृत्तान्तं ज्ञात्वा प्राक्पराभव15 सञ्जातामर्षों गर्जनपुरेशस्त्वमभिषेणयितुमागच्छतीति चरैः प्रोक्ते दूनो नृपः । श्रीपत्तनेऽपि
साध्वसमभूत् । विज्ञप्तं तद् गुरूणां तैश्च स्तम्भितः स तत्रस्थः । षण्मासजीवदयापणे कृते मुक्तः । मारिः कुत्रापि स्थितिं न लेभे । श्रीगुरुणामुपदेशेनाज्ञाकारिषु नृपेष्वष्टादशदेशेषु चतुर्दशवत्सराणि सर्वप्राणिप्रियाममारिमकारयत् । मारेरपि मारिन कश्चित् कथयति । ४७२. सौनिक-व्याध-कैवर्त्त-कल्यपालादिपट्टकान् ।
अपाटयत् क्वचिच्छक्त्या भक्त्या चार्थव्ययात् क्वचित् ॥
20
६६७४. अथैकदाऽश्वपर्याणस्थसूक्ष्मजीवप्रमार्जनपरं राजानं दृष्ट्वा नृपाः परस्परं भ्रूसञ्जया स्मितमकार्षुः । तद्विज्ञाय विज्ञजनशिरोमणिर्लाहकटाहत्रयं बाणेन प्रस्फोट्य कुन्ताग्रेण लोहभृतगोणिमुत्पाट्य स्वभुजबलमदर्शयत् । तर्जिताश्च ते-'रे ! किमेभिर्वराकैः
सूक्ष्मजन्तुभिरल्पसत्त्वैर्हतैरिति'। ततः कुमरगिरौ राजाज्ञयाऽष्टौ लक्षास्तुरङ्गमा गालितं जलं 25 पिबन्ति । अमारिपटह: सर्वत्र पुर-ग्रामादिषु भ्राम्यति । राजपुरुषाश्चामारिं कारयन्ति ।
1. B स्वमूर्ति श्रीकुमारपालमूर्ति । 2. B पितुः पा० । 3. B ०स्त्वामभिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org