________________
कुमारपालप्रबोधप्रबन्धः।
१८१ ६६७१. अथ संवत् द्वादशाधिकषोडश १२१६ वर्षे मार्गशुदि द्वितीयायां लग्ने बलवति संवेगमतङ्गजारूढो रत्नत्रयवस्त्रालङ्कृतो दक्षिणपाणिबद्धोरुदानकङ्कणः सम्यक्त्वानुचरेण समं श्रद्धासहोदरया क्रियमाणलवणावतारणो गुरुभक्तिदेशविरतिजानिणीभ्यां गीयमानधवलमङ्गलः पौषधवेश्मद्वारि अनुकम्पाकन्याजनन्या कृतप्रोङ्खण: श्रीमन्महादेवार्हतः साक्षि स नृपतिरहिंसायाः प्राणिं जग्राह । तदा तारामेलनपर्व । अथ 5 षट्त्रिंशत् सहस्रप्रमाणं त्रिषष्टिचरितं नवाङ्गवेदीमहोत्सवादानीय वेदिपदुद्या(?)स्थाने कपर्दप्रत्येकं विंशति वीतरागस्तवाः । तस्यैकस्यां वेदिकायां वंशान् तथैकैकशमीकाष्ठं तत्पदे श्रीयोगशास्त्रप्रकाशाः १२ । तथा शमीकाष्ठपदे लक्षणसाहित्यतर्केतिहासप्रमुखशास्त्ररचनाभिर्मूलोत्तरगुणाभ्यां च दृढीकृत्य वेदिकायां ज्ञानानलमुदीप्य तत्परितो मण्डलचतुष्टयदापनं 'चत्तारि मंगल'मित्यादि । द्वासप्ततिकालक्षप्रमाणरुदतीद्रव्यकरमोचनं 10 तस्याः कन्यामुखमण्डने दत्तम् । तत्कालमेव तस्याः पट्टबन्धं कारयित्वा तत्पितुर्योग्यानावासान् विहारान् १४४४ कारयामास । ततः सा हिंसा, स्वसपत्न्या अहिंसायाः परमोन्नति तद्विधामालोक्य भर्तुः पराभवनिवेदनाय पितुर्धातुः समीपे समुपागता । चिरदर्शनाद् अभिभववैरूप्याच्च अनुपलक्षिता तेनेत्यभिदधे४७१. का त्वं सुन्दरि ! मारिरस्मि तनया ते तात घात: प्रिया,
किं दीनेव पराभवेन स कुतः किं कथ्यतां कथ्यताम् । हेमाचार्यगिरा परार्द्धगुणभाक् हृद्वक्त्रहस्तोदरात्;
मामुत्तार्य कुमारपालनृपतिः क्षोणितलादाकृषत् ॥ इति तद्भणितेरन्तरं श्रीकुमारपालदेवस्य सत्यप्रतिज्ञस्यापि तस्य लिङ्गिनो गिरा त्वयि विरक्तचित्ततां विमृश्यातः परं भवत्याः स कोऽपि वर: प्रवर: करिष्यते, यस्तवैवैकातपत्रं 20 कुरुते, धीरा भव । तां सम्बोध्य स्वसमीपे स्थापयाञ्चक्रे ।
६६७२. हिंसापिता पापनामा नरेन्द्रवरं विलोकयन् वाणारस्यां जयचन्द्रनृपं सप्तशतयोजनभूमिनाथं दृष्टवान् । अन्यराजकं दासमिव मन्यमानश्चत्वारिंशतानि गजेन्द्राः षष्टिलक्षाश्च वाजिनः द्वादशसतानि पित्तलमयानि निस्वानानि, गङ्गा-यमुनायष्टी विना क्वापि गन्तुं न शक्नोति तेन ‘पङ्गुराजे 'ति बिरुदं वहति । तस्य गोमती दासी ६०००० 25 अश्वेषु प्रक्षरान् निवेश्याभिषेणयन्ती, परचक्रं त्रासयति, राज्ञः श्रम एव कः । तत्र वाणारस्यां नृपाय ददौ । सा वार्ता श्रीकुमारपालेन श्रुता । मदीयपत्न्या गृहान्तरमकारि,
1. Pa बारसोलोत्तरावर्षे मार्गसुदि । 2. B साक्षिकं स । 3. B विंशतिर्वीत० । 4. B तिलक्ष० । 5. B तद्भणिप्तानन्तरं । 6. B नरेन्द्रो वरं । 7. B सोऽन्य० । 8. B ०मयनिस्वा० । 9. B प्रक्षरां । 10. B वाणारस्यां तेन पित्रा सा हिंसा कन्या तस्मै नृ० ।।
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org