________________
10
१८०
कुमारपालचरित्रसङ्ग्रहः एवमादिष्टम्-यदियमतीव पुण्यवती दुहिता । पुत्रजन्मोत्सवादप्यस्या जन्म श्लाघ्यम् । अतः क्रमेण वर्द्धमाना कन्या साऽनुरूपवराप्राप्त्या वृद्धकुमारी भूत्वाऽनुरूपेण केनापि महीमहीन्द्रेण सोपरोधमूढा, तं च स्वं च जनकं च परामुन्नतेः कोटि नेष्यति-इति तद्वाक्यपर्यन्ते तदर्थिनाऽनुकूल्य तस्याः सविधे सद्गुद्धिनाम्नी दूतीं नृपः प्राहिणोत् । सा तां 5 सप्रश्रयं प्रणिपत्य 'स्वामिनि राजकन्ये ! धन्यतमासि, यत्त्वामष्टादशदेशसम्राट् समस्त
सामन्तसीमन्तकर्मणि मयूखमालालङ्कृतचरणकमलयुगलश्चौलुक्यचक्रवर्ती त्वामुद्वोढुमभिलषती'ति तद्वचसा मुखमोटनया विनयं नाटयन्ती सोपहासं सैवं प्राह४६६. निष्किञ्चनेन दयितेन विवाहितेन,
यद्योषितां सुखपदं न तदीश्वरेण । भागीरथीं वहति यां शिरसा गिरीशो;
लक्ष्मीपतिः स्पृशति नैव पुनः कदापि ॥ अलं नरकान्तप्राज्यसाम्राज्यप्राप्तिप्रलोभनवार्त्तया । ४६७. सत्यवाक्, परलक्ष्मीमुक्, सर्वभूताभयप्रदः ।
सदा स्वदारतुष्टश्च सन्तुष्टो मे पतिर्भवेत् ॥ 15 इति तस्या दुःश्रवं प्रतिश्रवमाकर्ण्य सा विफलवैदग्ध्यमानिनी स्वं पदमुपगता स्वामिनं
सर्वथा निराशमकरोत् । तदनु तं नृपं तद्वियोगाग्निमग्नमाकलय्य श्रीहेमसूरिस्तमिति प्रतिबोधितवान्-'यः कन्याया इतरलोके दुष्करः सङ्गरः स तवाप्युभयलोकहितस्तदनुकूलताहेतुश्च । अतस्तमपि निर्मापय स्वनिस्सीमोन्नतये । ४६८. सुकलत्रस्य सम्पत्तिः पुंसां भाग्यनिबन्धनम् ।
या प्रीतिजननी जन्या सा सौभाग्योपरि मञ्जरी ॥ ४६९. स्थाने निवासः सुकलं कलत्रं, पुत्रः पवित्रः स्वजनानुरागम् ( रागः)।
न्यायाच्च वित्तं सुहितं च चित्तं, निश्छद्म धर्मस्य सुखानि सप्त ॥ सा सर्वथा परिणेतुमुचितैव । यतः
४७०. धन्यां सतीमुत्तमवंशजातां, लब्ध्वाधिकां याति न कः प्रतिष्ठाम् । 25
क्षीरोदकन्यां गिरिराजपुत्रीं; गोपस्तथोग्रश्च यथाधिगम्य ॥ इति तेन महर्षिणा प्रतिबोध्य तानशेषानभिग्रहान् ग्राहयित्वा तस्याः प्रदानं चक्रे ।
20
1. B ०सीमन्तकमणिम० । 2. B सोपहासमेवं । 3. B सम्प्रदानं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.