________________
कुमारपालप्रबोधप्रबन्धः ।
१७९
श्रद्धया साधूनां दानमदात् । ततः स्वं कृतार्थं मन्यमानः कृतपुण्यः सन् मृत्वा त्वं त्रिभुवनपालपुत्रो जातः । ओढरश्रावकस्तु उदयनमन्त्री, यशोभद्रसूरयस्तु वयम् । त्वं पुनरितो निजायुः प्रान्ते महर्द्धिकव्यन्तरदेवत्वमधिगम्य ततश्च्युत्वा चात्रैव भरतक्षेत्रे भद्रिलपुरे शतानन्दनृप - धारिण्योः पुत्रः पैत्रिकराज्यमवाप्य भावि श्रीपद्मनाभजिनेन्द्रधर्मदेशनां श्रुत्वा प्रतिबुद्धः परिहृत्य राज्यलक्ष्मीं प्रव्रज्यैकादशगणधरो भूत्वा 5 केवलज्ञानमासाद्य मोक्षं यास्यसि ।' एतन्निशम्य राजा विस्मितः प्राह - 'भगवन् ! कोऽत्र प्रत्यय: ? ।' श्रीगुरुभिरूचे - 'राजन् ! अद्यापि ओढरवंशीयाः सन्ति उरङ्गलपुरे तेषां गृहे जीर्णदासी पूर्ववृत्तान्तान् जानाति । सा गत्वा पृष्टा सती सर्वं कथयिष्यति ।' ततो राज्ञा निजपुरुषैस्तत्सर्वं स्वरूपं ज्ञातं दास्या मुखेन जयताकभवसत्कम्; ज्ञातं च जयसिंहदेवेन सह वैरकारणम् । चिन्तितं च निजमनसि 'अहो ! वैरकारणम्, दारुणः संसार आत्मन् !' 10 ततो राजा संवेग - निर्वेदाभ्यामालिङ्गितः । सञ्जात श्रीजिनधर्मस्थैर्यः श्रीहेमसूरीणां 'कलिकालसर्वज्ञ 'पदमदात् ।
§§७०. कस्मिन्नप्यवसरेऽणहिल्लपुरे श्रीकुमारपालनामा नरेश्वरो वाहकेल्यां व्रजन् सौन्दर्यवर्यनिर्जितसुरसुन्दरीमबालेन्दुवदनां कामप्यबलां बालिकामालोक्य तद्रूपापहृतहृदयः संनिहितप्रसादचिन्तकं प्रति केयमित्यादिशंस्तेनेति विज्ञपयाञ्चक्रे - 'अपारश्रुतकूपार- 15 पारदृश्वतया सञ्जात' कलिकालसर्वज्ञ 'प्रसिद्धेर्द्वादशभिन्नतपः समाराधनवैशबन्दीकृताष्टमहासिद्धेर्निःशेषभूपालमौलिचुम्बितपादपीठस्य आयुष्मतः श्रीहेमचन्द्रमहर्षेराश्रमनिवासिनी अहिंसानाम्नी कनीयमिति निशम्य सद्यः कदाचित्तान् महर्षीन् हर्षभाक् सभक्तिकं सौधमाकार्य तद्वृत्तान्तं पृच्छंस्तै ( पृष्टैस्तै) रूचे-'त्रिजगदेकसार्वभौमस्य श्रीमदर्हद्धर्मस्य अनुकम्पानाम पत्नी'; 'कथं धर्मस्य राज्यत्वम् ?' यतः
४६५. जिनमतनगरेऽस्मिन् मोहमत्तारिजेता,
जयति जनितधामा धर्मनामा नरेन्द्रः । नियतमर्परिभूतं यस्य राज्यं प्रभूतं; विलसति नयपूतं तत्त्वसप्ताङ्गमेतत् ॥
अर्द्धासनोपविष्टाऽनुकम्पानाम महादेवी । तस्याः कुक्षिसरसि राजहंसी निःसीम - 25 सौन्दर्याऽहिंसाभिधा[पुत्री] । यस्मिन् लग्ने सुताऽजनि, तल्लग्नं ग्रहबलं तत्पित्रा सर्वविदा
1. B श्रद्धया स्वभोजनमध्यात् सा० । 2. B ० त्यादिशत् । ते० । 3. B व्वशंवदी । 4. B राजत्वम् । 5. A ०परिभूयं । 6. B ०सरसी ।
Jain Education International
20
For Private & Personal Use Only
www.jainelibrary.org