________________
१७८
कुमारपालचरित्रसङ्ग्रहः राज्ञः समस्तसभासमक्षं कथितम्, यथा-'राजन् ! पूर्वभवे मेदपाटपरिसरे जयपुरे जयकेशी राजाऽभूत, तत्पुत्रो जयताक: सप्तव्यसनवान् पित्रा निष्काशितो मेदपाटपरिसरे पर्वतश्रेण्यां पल्लीपतिर्जातः । अन्यदा नरवीरस्य सार्थवाहस्य सार्थः सर्वोऽपि
लुण्टितस्तेन । सार्थवाहस्तु मालवदेशं गत्वा तत्र राजानं विज्ञप्य सैन्यमानीय 5 पल्लीमवेष्टयत् । तन्महद्बलं मत्वा जयताको नष्टः । नरवीरेण वणिजाकारेण कीटमारि:
कृता । तत्पत्नी सगर्भा हता । भूपतितो बालः शिलायामास्फालितः । ततो मालवकदेशे राज्ञोऽग्रे स्वरूपे निरूपिते, राज्ञा हत्याद्वयं स्त्री-बालरूपं लग्नम्, अतोऽयमद्रष्टव्यमुखोऽस्तीति निष्काशितः स्वदेशात् । स च सार्थवाहो नरवीर: पदे पदे लोकैनिन्द्यमानः
पश्चात्तापपरो वैराग्यात्तापसो भूत्वा तीव्र तपस्तत्त्वा मृत्वा जयसिंहदेवो जातः । स च 10 हत्याद्वयादपुत्रः । जयताकोऽपि देशान्तरं गच्छन् रूपसौभाग्यवानाकर्णाकृष्टकोदण्डो मृगयापर: मार्गे श्रीयशोभद्रसूरिभिदृष्टः । प्रोक्तश्च४६३. क्षत्रियोऽसि नराधीश ! प्रतिसंहर सायकम् ।
आर्त्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि* ॥
भो क्षत्रिय ! एवंविधं पवित्रं क्षात्रगोत्रमवाप्य मा जीवहिंसा कुरु । एतदाकर्ण्य 15 लज्जितः प्राह- 'भगवन् ! ४६४. बुभुक्षितः किं न करोति पापं, क्षीणा नराः पापपरा भवन्ति ।
आख्याहि भद्रे ! प्रियदर्शनस्य, न गङ्गदत्तः पुनरेति कूपे ॥ ततः श्रीगुरुवचसा व्यसनानि मुक्तानि । श्राद्धैः शम्बलादिकं दत्तम् । शनैः शनैः प्राप्तप्रतिबोधो नवलक्षतिलङ्गे देशे उरङ्गलपुरे ओढरवणिग्गृहे भोजनादिवृत्त्याऽस्थात् । 20 एकदा पर्युषणापर्वणि स श्रीमान् ओढर: श्रावकः पुत्रपौत्रमित्रादिपरिकरः
सप्रधानपूजोपकरणः श्रीजिनगृहमगात् । तत्र विधिना जिनस्य स्नात्रं विधाय पूजावसरे जयताकं प्राह- 'गृहाणेदं पुष्पादिकम्, कुरु जिनेन्द्रपूजाम्, गृहाण स्वजन्मजीवितफलम् ।' ततः स तदाकाचिन्तयत्-'अदृष्टपूर्वोऽयं देवः परमेश्वरः प्रसन्नवदनः नासाग्रन्यस्तहक्
परमयोगमुद्रासीनः निरञ्जनस्वरूपः । तत्कथं परकीयैः पुष्पैः पूज्यते । ततः स्वकीय25 पञ्चवराटकक्रीतपुष्पैरानन्दाश्रुप्लावितदृक् प्रसन्नमनोवाक्कायः पारमेश्वरीं पूजामकरोत् ।
ततोऽहो ! यद्येते भोगभाजोऽपि व्यवहारिणोऽद्य तपः कुर्वन्ति, ततः पुण्यमद्यतनं दिनमित्यहमपि विशेषतस्तपः करोमीति गुरूणां मुखेनोपवासमकरोत् । प्रभाते विशुद्ध
1. B मालवकदेशं । 2. B राज्ञोऽग्रे कैश्चित्तत्स्वरूप० । * 'अनागसि' इत्यस्योपरि B प्रतौ 'अपापे' इति टिप्पणी । 3. B सपुत्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org -