________________
कुमारपालप्रबोधप्रबन्धः ।
१७७ श्रीजिनधर्मः प्रतिपन्नः । स्वर्गस्था वयं प्रमुदिता देवसंसदि ।' एतन्निशम्य राजा सचमत्कारमनाः प्राह- ‘भगवंस्तत्र तादृशमत्रेदृशं किमत्र तत्त्वम् ?' श्रीगुरवः प्राहुः'नरेश्वर ! तत्रापि, अत्रापि च नरकस्वर्गादिदर्शने सर्वं कलाकौशलमिदम् । तव पूर्वजाः यत्र स्वकर्मणा गताः, तत्र सन्ति । जिनवाक्यमेतत् । पूर्वोक्तदशलक्षणो धर्मः'। ततो लज्जितो राजा । क्षामिता गुरवः। राजपूर्वजानामागमनं दृष्ट्वा नष्ट्वा पश्चिमरात्रौ गतः। 5
६६६७. एकदा कोऽपि ब्राह्मणः परीक्षार्थं हरीतकी मुष्टौ बद्ध्वा सप्रमुदित
उवाच
४६०. हेमसूरि मू करि किसिउं हरडइ काइं रडेइ ।
जिणि कारणि हुं घालियउ सव्वह वंजण छेहिं । इति श्रुत्वा प्रमुदितः प्राह- 'अतः परं न रटिष्यति । युष्माभिः स्वनामाग्रे स्थापितो- 10 ऽस्ति ।' इत्यादिवाक्यैः ब्राह्मणैर्विद्वद्भिः सह प्रीतिरुत्पन्ना । यतः४६१. असारसंसारमहीरुहस्य, सुधोपमं स्वादुफलं तदेकम् ।
परस्परं मत्सरवर्जितानां, यद्वर्द्धते प्रीतिरियं नराणाम् ॥ ६६६८. एकदा व्याख्यानमध्ये श्रीगुरुभिर्हाहेति प्रोचे, चन्द्रयशगणिना तु हस्तौ घृष्टौ मुक्ते व्याख्याने तु राज्ञा पृष्टम् -'भगवन् ! युवाभ्यां किं कृतम् ?' श्रीगुरुभिरूचे- 15 'राजन् ! देवपत्तने श्रीचन्द्रप्रभप्रासादे दीपेन चन्द्रोदयो लग्नोऽस्माभिदृष्टः । स तु हस्तौ घृष्ट्वा अनेन विध्यापितः । राजा चमत्कृतः, स्वपुरुषैनिर्णयं व्यघात् । अहो ! निरतिशये कालेऽपि श्रीभवतामपूर्वं ज्ञानम् ।
६९. ततः पूर्वभवमपि मे ज्ञास्यन्तीति तदपृच्छत्-'भगवन्निदमपि ज्ञायते, यदहं पूर्वभवे कीदृशोऽभूवम् ।' श्रीगुरुभिरुक्तम्-'राजन्निरतिशयकालोऽयम् । यत: 20 श्रीवीरनिर्वाणाद् वर्षाणां चतुःषष्ट्या चरमकेवली श्रीजम्बूः सिद्धिं गतः । तेन सह द्वादश वस्तूनि त्रुटितानि । ४६२. मणपरमोहिपुलाए आहारग-खवगउवसमे कप्पे ।
संयमतियकेवलसिज्झणा य जंबुम्मि विच्छिन्ना ॥ सहस्रवर्षेण सर्वं पूर्वगतं श्रुतं व्यवच्छिन्नम् । सम्प्रति त्वल्पं श्रुतम् । तथापि देवतादेशेन 25 विज्ञाय किमपि कथयिष्यामः । ततो रात्रौ शुभध्याने स्थिताः । समायातः पूर्वाराधितश्रीसिद्धचक्रसुरः । पृष्टो राज्ञः पूर्वभवम् । तेन निवेदितं सर्वं भवस्वरूपम् । ततः प्रभाते
1. B धर्मस्तत्त्वम् । 2. B गतो देवबोधिः । 3. B बद्ध्वा उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org