________________
5
10
१७६
कुमारपालचरित्रसङ्ग्रहः
सूरयस्तु पुरापि पूरितासनमुद्राः प्राणायामलघुभूतशरीराः शिष्याकर्षितसिंहासना निरालम्बा: स्थिताः सन्ति । तान् तदवस्थान् दृष्ट्वा विस्मितो देवबोधिः । सर्वेऽपि लोका विस्मयस्मेरमानसाः प्रोचुः - अहो ! सूरीणां निराधारमाकाशेऽवस्थानमिति । तेन कवित्वशक्तिपरीक्षार्थं समस्यापदमर्पितम् । यथा
४५८. व्याषिद्धा रुदती मुखं च नयने स्वे गर्हते कन्यका । तदाकर्ण्य-‘भगवन् ! किमुच्यते युष्मच्छिष्याणां विदुषां सरस्वतीसर्वस्वमुखानां प्रथममहमेव श्रीभगवदाज्ञया पूरयामीति प्रमाणं कृत्वा कपर्दी श्रावकः सर्वान् निवार्य पूरयामास
४५९. नैतस्याः प्रसृतिद्वयेन सरले शक्ये पिधातुं दृशौ,
Jain Education International
रुद्राक्षी च विलोकते शशिमुखी ज्योत्सनावितानैरियम् । इत्थं मध्यगता सखीभिरसकृद् दृग्मीलनाकेलिषु; व्याषिद्धा रुदती मुखं च नयने स्वे गर्हते कन्यका ॥
श्रीहेमसूरिसेवापरस्य श्रावकस्यापि शीघ्रकवितां दृष्ट्वा विस्मयस्मेरः 'शोभनोऽयम्, वयं समुत्सुकाः स्मः' इत्युक्त्वा गतः । राज्ञाऽन्त्यजात् निमन्त्रापितः । तेन मानितं 15 निमन्त्रणम् । द्विजादीनां विमर्शः कथमन्त्यजगृहे भोजनं करिष्यतीति । सहस्रलिङ्गसरोवरटोडकयोर्मोचितं भोज्यम् । राजा तु राजपाटिकामिषेण सरोवरसमीपे समायातः । देवबोधिः स्नानार्थं जलान्तः प्रविष्टः । कृष्णश्वा भूत्वा निर्गतो भुक्तं तद्भोजनम् । पुनर्जलान्तः प्रविश्य देवबोधिर्भूत्वाऽगात् । राज्ञः सर्वेषां लोकानां च विस्मयोऽभूत् । राज्ञा निजावासे निमन्त्रितः । विविधा भक्तिः कृताः । अन्यदिने देवार्चावसरे 20 सप्तपूर्वजानां मस्तकानि कीटैरावृतानि प्रोचुः - 'हे वत्साऽस्माभिस्तुभ्यं राज्यं दत्तम्, त्वं महतीं प्रौढिं नीतः । अस्मन्मार्गं मुक्त्वा जैनोऽभूत्, तेन राज्यं पश्चाद् ग्रहीष्यामः । सप्तमे नरके पातिता वयम् । त्वया किं कृतम् ? । त्यक्तः स्वकुलाचारः । त्यजाधुनाऽपि कुमार्गप्रवृत्तिम्'। एतदाकर्ण्य राजाऽविज्ञातपरमार्थः किङ्कर्त्तव्यताजडोऽभूत् । सविषादमिदमचिन्तयत् -‘अहो ! सकलशास्त्रसंवादसुन्दरोऽयं जीवदयाधर्मः सर्वप्राणिप्रियः कथं 25 कुमार्गः कथ्यते, किमत्र तत्त्वम् ?' । तस्मिन् दिने लोकमध्ये महाप्रभावोऽभूत् मिथ्यादृक्शासने । द्वितीयदिने व्याख्यानावसरे प्रथमं परिमलसुगन्धः, पश्चाद्विमानम् । विमानादुत्तीर्य मूलराजप्रभृतयः पूर्वजाः श्रीगुरून्नमस्कृत्य श्रीकुमारपालं प्रति प्राहु:'वत्स ! त्वया नरकान्तं राज्यं प्राप्य कलिकालेऽपि महतां महनीयस्त्रिभुवनोत्तमः 1. B प्रणामं । 2. B ऽन्त्यजगृहेषु नि० । 3. B सरोवरतोडक० ।
For Private & Personal Use Only
www.jainelibrary.org