SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबोधप्रबन्धः । ४५६. द्यूताद् राज्यविनाशनं नलनृपः प्राप्तोऽथवा पाण्डवाः, मद्यात् कृष्णनृपश्च राघवपिता पापद्धितो दूषितः । मांसात् श्रेणिकभूपतिश्च नरके चौर्याद्धतो मण्डिको; वेश्यातः कृतपुण्यको गतधनोऽन्यस्त्रीमृतो रावणः ॥ ततः सभायामेतानि सप्तकथानकानि व्यसनदोषप्रकाशकानि श्रीगुरुमुखेन श्रुत्वा 5 राजा लोकानां ज्ञापनाय सप्तव्यसनानि मृण्मयानि कारयित्वा रासभेष्वारोप्य राजमार्गे भ्रामयित्वा लकुटादिभिर्हन्यमानानि श्रीपत्तनात् निजदेशाच्च निरचीकशत् । ✡ ६५. अथान्यदा श्रीजिनधर्माभिमुखं नृपं ज्ञात्वा श्रीपर्वताद् भैरवानन्दो नाम योगी पञ्चशतयोगिपरिवृतः श्रीपत्तनमागतः । सम्मुखगमने राज्ञा पृष्टा: श्रीसूरयः प्राहु:'शोभनमिदम्, परं परीक्षा क्रियते, ततो गम्यते ।' समस्यापदं राजपुरुषकरेण प्रेषितम् । 10 यथा - 'च्यारि घाय जोगवई स जोई'- इति एतत्समस्यापदं विचार्य कीदृशाश्चत्वारो घाता भविष्यन्तीति घातभीतस्त्रियामिन्यां नष्टः । प्रत्यूषे घातस्वरूपं राज्ञा पृष्टा गुरवः प्राहु: ४५७. एय अउव्व(व्वी? ) जोई मुद्दामणमेहुणअणवाईनिद्दाए । परमत्थु न बुज्झइ कोई च्यारि घाय जोगवई सो जोई ॥ १७५ Jain Education International ✡ ६६६६. अथ गङ्गातटे दीपकाख्यद्विजात् त्रैपुरं मन्त्रं प्राप्य नर्मदातटे देवबोधिद्विजोऽसाधयत् । तुष्टा त्रिपुरा तस्य, 'एकवाक्येन याचस्व वरम्' इत्युवाच प्रत्यक्षा। सोऽपि बुद्धिमान् 'भुक्ति-मुक्ति- सरस्वती 'रिति ययाचे । ततः प्रभृति महेन्द्रजालादिविद्यावान्, चूडामण्यादिशास्त्रैरतीतादिज्ञाता, कदलीदण्डपत्रमयमामसूत्रतन्तुबद्धं सुखासनमधिरोहति । चतुरशीत्यासनकरणप्रवीणः, कायगतषट्चक्रविज्ञानचक्रवर्ती, षोडशाधार - 20 धीरधीः, लक्षत्रयदक्षः, व्योमपञ्चकपण्डितः, पूरक- कुम्भक - रेचकादिप्राणायामक्रियाकुशलः, इडा-पिङ्गला- सुषुम्णा- गान्धारी - हस्तिनीप्रमुखदशमहानाडीवातसञ्चारचतुरः, आद्विजमातङ्गप्रार्थकगृहेषु यथार्हं रूपकरणाद् भुक्तिः, श्रीजिनधर्मानुरक्तं नृपं ज्ञात्वा स श्रीपत्तने समायातः । सर्वद्विजै: सत्कारितः, चमत्कारदर्शनाल्लोकैश्च । राजगुरुरिति मत्वा राजापि सम्मुखमागतः । कदलीपत्रसुखासनस्थः शिशुकारितवाहककर्मा राजादि - 25 परिवारपरिवृतः शालाग्रे समायातः । कौतुकाकुलितसकलपरिवारप्रेरितो मध्ये प्रविष्टः । 1. B अउव्वा । 2. B ० धारधीः । For Private & Personal Use Only 15 www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy