________________
१७४
कुमारपालचरित्रसङ्ग्रहः समर्यादमनया स्त्रिया चेद् भवति तदा तथाऽस्तु, किं बहुविचारेण' -इति विचिन्त्य तैरुक्ते दिने तैः समं सस्त्रीकः सुतरां निर्भीक: श्रीरैवताचलमौलिमलञ्चकार । ते च त्रयः कृतपूर्वकृत्याः श्रीअम्बिकाकृतसान्निध्याः शुभध्यानधीरधियः श्रीरैवतदेवतादृष्टौ त्रियामिन्यामाह्वानावगुण्ठनमुद्राकरणमन्त्रन्यासविसर्जनादिभिरुपचारैर्गुरूक्तविधिना समीपस्थ5 पद्मिनीस्त्रीकृतोत्तरसाधकक्रियाः श्रीसिद्धचक्रमसाधयन् । तत इन्द्रसामानिकदेवोऽस्याधिष्ठाता प्रत्यक्षीभूय पुष्पवृष्टिं विधाय स्वेप्सितवरं वृणुतेत्युवाच । ततः श्रीहेमसूरिणा राजप्रतिबोधः; देवेन्द्रसूरिणा निजावदातकरणाय कान्तीनगर्याः प्रासाद एकरात्रौ ध्यानबलेन सेरीसकग्रामे समानीत:'- इति जनप्रसिद्धिः; मलयगिरिसूरिणा सिद्धान्त
वृत्तिकरणवर:;- इति त्रयाणां वरं दत्त्वा देवः स्वस्थानमगात् । प्रमुदितो ग्रामाधीशः । 10 प्रत्यूषे बहुवित्तव्ययेन प्रभावनां विधाय त्रयाणां ध्यानध्येयं ब्रह्मदाढयँ देवकृतप्रशंसा
वरप्रदानं च जनेषु प्रकटीकृत्य निजजायां गृहीत्वा स्वग्रामं जगाम ।
६६६२. अथ श्रीपत्तने गुरुभिः सह सिद्धराजसभायां गतो हेमचन्द्रमुनिः । स्वविद्वत्तयाऽप्रतिमः प्रीणितान्तर्वाणिगणः प्रमुदितेन सिद्धभूपतिना कारिताचार्यपदमहोत्सवः प्रत्यहं कलाकौशलेन कालं गमयति ।
15 ६ ३. अन्यदा नृपेण 'किं वाच्यतेऽद्यकल्ये?' इति पृष्टे, अजिह्मपरब्रह्मैक
कारणव्रतविचारे 'स्थूलभद्रमुनीन्द्रचरित्रम्' इत्युक्ते राजा समग्रमामूलतस्तच्चरित्रं पप्रच्छ । ततः सविस्तरं कथिते चरित्रे राजा प्रमुदितः । अत्रावसरे मिथ्यादृगालिगो (पाठान्तरेण'मिथ्यादृष्टिागिलो) मन्त्री प्राह-'अहो सम्प्रति काले क्व मनुष्याणामेवंविध इन्द्रिय
जयः । यतः- 'विश्वामित्रपराशरप्रभृतयो०' [इत्यादि पद्यम्] । ततः श्रीसूरिभिः 20 प्रत्युत्तरमदायि-'सिंहो बली द्विरद०' इति श्रुत्वा राजा चमत्कृतः । नवीनं व्याकरणं कृतम् । एते ते हेमसूरयः ।' इति श्रुत्वा राज्ञा श्रीकुमारपालेन श्रीमोढज्ञातीयानां लोकानां चामराः दत्ताः । -इति दीक्षाप्रबन्धः ।
६६४. अन्यदा श्रीगुरवः सभायां व्यसनानि निराकर्तृ प्राहु:४५५. द्यूतं च मांसं च सुरा च वेश्या, *पापद्धिचौरी( चौर्ये ) परदारसेवा ।
एतानि सप्तव्यसनानि राजन् !, घोरातिघोरं नरकं नयन्ति ॥ 1. B ०तः । तदभ्यर्थनया नवीनं । * 'पापद्धिचौर्ये' इति पाठः समीचीनो भाति ।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org