________________
कुमारपालप्रबोधप्रबन्धः ।
१७३ ४५४. सङ्कल्पमात्रादपि सिद्धकार्या, वाञ्छन्ति ते नैव तथापि किञ्चित् ।
इच्छाविनाशेन यदस्ति सौख्यं, त एव जानन्ति गुरुप्रसादात् ॥ तथाप्ययं परमपुरुषः सकलपुरुषार्थप्रणेताऽस्मिन्निरतिशये काले श्रीशासनस्य प्रभावको भावीति कृत्वा कतिपयविद्यामन्त्रान् श्रीविद्याप्रवादसंवादसुन्दरान् साम्नायान् प्रदाय प्रमुदिता भगवती भारती कृतस्तुतिस्तिरोऽभूत् । पुनः पश्चादागताः ।।
5
६६६०. एकदा श्रीगुरूनापृच्छ्यन्यगच्छीयदेवेन्द्रसूरि-मलयगिरिभ्यां सह कलाकलापकौशलाद्यर्थं गौडदेशं प्रति प्रस्थिताः । खिल्लूरग्रामे गताः । तत्र ग्लानो मुनिर्वैयावृत्त्यादिना प्रतिचरितः । श्रीरैवतकतीर्थे देवनमस्करणकृतातिर्यावद्ग्रामाध्यक्षश्राद्धेभ्यः सुखासनं तद्वाहकांश्च प्रगुणीकृत्य रात्रौ सुप्तास्तावत् प्रत्यूषे प्रबुद्धां स्वं रैवतके पश्यन्ति । शासनदेवता प्रत्यक्षीभूय कृतगुणस्तुतिर्भाग्यवतां भवतामत्र स्थितानां सर्वं 10 भावीति गौडदेशगमनं निषिध्य महौषधीरनेकान् मन्त्रान् नामप्रभावाद्याख्यानपूर्वकमाख्याय स्वं स्थानं जगाम ।
६६६१. एकदा श्रीगुरुभिः सुमुहर्ते दीपोत्सवचतुर्दशीरात्रौ श्रीसिद्धचक्रमन्त्रः साम्नायः समुपदिष्टः । स च पद्मिनीस्त्रीकृतोत्तरसाधकत्वेन साध्यते । ततः सिध्यति, याचितं वरं दत्ते, नान्यथा । ततोऽन्यदा कुमारग्रामे धौतां शोषणार्थं विस्तारितां शाटिकां 15 समालोक्य पृष्टो रजकस्तैः- 'कस्या इयं शाटिकेति ?' सोऽवदद्- 'ग्रामाध्यक्षपत्न्या इयम्'। ततो गतास्तस्मिन् ग्रामे । ग्रामाध्यक्षप्रदत्तोपाश्रये स्थिताः । स च प्रत्यहं समेति, धर्मदेशनां शृणोति । तेषां ज्ञानक्रियावैराग्यप्रमत्तत्वादिगुणान्, दृष्ट्वा, तथाविधभव्यत्वपरिपाकाद् गुणानुरागरञ्जितस्वान्तः प्रमुदितः प्राह- 'यूयमनिच्छपरमेश्वराः, कमपि कार्य मत्साध्यं ममादिशन्तु ।' ततस्ते तं स्वान्तनिवेदिनं गुणानुरागगम्भीरवेदिनं ज्ञात्वा प्राहुः- 20 'अस्माकं श्रीसिद्धचक्रमन्त्रः साधयितुमिष्टोऽस्ति । स च पद्मिनीस्त्रीकृतोत्तरसाधकत्वेन सिध्यति नान्यथा । तेन तव या पद्मिनी स्त्री वर्त्तते, तां लात्वा कृष्णचतुर्दशीरात्रौ रैवतकाचले समागच्छ, अस्माकमुत्तरसाधकत्वं कुरु; विकारदर्शने शिरच्छेदस्त्वयैव विधेयः'- इत्याकर्ण्य ग्रामाध्यक्षो विस्मयस्मेरमना मनाग्विमह्यं चिन्तयाञ्चकार-'एते तावन्महर्षयः समतृणमणिलोष्टकाञ्चनाः परब्रह्मसमाधिसाधकाः, तद्येतेषामिदं कार्यं वर्यं 25
__ 1. B ०दागताः श्रीहेमचन्द्राः । 2. B कृतार्त्तयो याव० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org