________________
१७२
कुमारपालचरित्रसङ्ग्रहः ४५०. धनधान्यादिसम्पत्सु लोके सारा हि सन्ततिः ।
तत्रापि पुत्ररत्नं तु तस्य दानं महत्तमम् ॥ ४५१. स्वर्गस्थाः पितरो वीक्ष्य दीक्षितं जिनदीक्षया ।
मोक्षाभिलाषिणं पुत्रं तृप्याः स्युः स्वर्गसंसदि ॥ 5 श्रीमहाभारतेऽप्युक्तम्
४५२. तावद् भ्रमन्ति संसारे पितरः पिण्डकाङ्क्षिणः ।
यावत् कुले विशुद्धात्मा यती पुत्रो न जायते ॥ इति श्रुत्वा प्रमुदितेन चाचिगेन प्रव्रज्योत्सवः श्रीस्तम्भतीर्थे आलिगवसहिकायां
कारयितः । सोमदेवमुनि म दत्तम् । 1088५९. यथान्यदा नागपुरे धनदेवनाम्नः श्रेष्ठिगृहे प्रथमालिकार्थं गतः । तद्गृहे
रब्बाभोजनं स्वर्णराशि च दृष्ट्वाऽग्रगं वृद्धसाधुं प्राह यथा- 'अभाग्यवसेनायं निर्धनो जातः । निधानगतमपि स्वर्णमङ्गारीभूतं राशीकृतमस्ति'। सोमदेवमुनिना प्रोक्तम्-'मया तु स्वर्णराशिददृशे' । गवाक्षस्थेन श्रेष्ठिना तन्निशम्य क्षुल्लकमाहूय, अङ्गारकराशौ करो दापितः ।
तत्सर्वं स्वर्णं जातम् । तत्प्रच्छादकः कश्चिद् व्यन्तर: परब्रह्मतेजोऽसहिष्णुर्नष्टः । ततः 15 सञ्जातचमत्कारेण श्रेष्ठिना श्रीसद्धेन च हेमचन्द्रनाम दापितम् । ततः शनैः शनैर्ज्ञानेन तपसा विनयादिगुणैर्वयसा च वर्द्धमानो निजौदार्यगाम्भीर्यादिगुणैरावर्जितश्रीगुरु-गच्छश्रीसङ्घलोकः, कदाचित् श्रीगुरूनापृच्छ्य युगादौ लोकोपकाराय परब्रह्ममयपरमपुरुषप्रणीतमातृकाऽष्टादशलिपिन्यासप्रकटनप्रवीणाया ब्राह्म्या आदिमूर्ति विलोकनाय
काश्मीरदेशं प्रति प्रस्थितः श्रीहेमचन्द्रः । ततः कियति मार्गेऽतिक्रान्ते सति मिथ्या20त्वतम:करालेऽस्मिन् कलिकालेऽस्य श्रीजिनशासनप्रभावकस्य महापुरुषस्य बह्वपायसङ्कले पथि मा भूद् भ्रमणप्रयासः - इति सा भगवती स्वयं दिव्यरूपधारिणी सम्मुखीना समाजगाम निशीथे । अजिह्मपरब्रह्मवर्चसं पद्मासनासीनमर्द्धनिमीलितलोचनं समाधियोगस्वाधीनस्वान्तं ध्यानाधिरूढं श्रीहेमचन्द्रं दृष्ट्वा प्रोवाच४५३. रुद्धे प्राणप्रचारे वपुषि नियमिते संवृतेऽक्षप्रपञ्चे,
नेत्रस्पन्दे निरस्ते प्रलयमुपगते सर्वसङ्कल्पजाले । भिन्ने मोहान्धकारे प्रसरति महसि क्वापि विश्वप्रदीपे; धन्यो ध्यानावलम्बी कलयति परमानन्दसिन्धौ प्रवेशे ॥
25
1. B दापितं श्रीगुरुभ्यः । ततः । 2. B आदिमूर्तिवि० । 3. B प्रवेशं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org