________________
१७१
कुमारपालप्रबोधप्रबन्धः। गतश्चाचिगः पत्नीनिवेदितश्रीगुरुसङ्घागमनपुत्रार्पणादिवृत्तान्तः, पुत्रादर्शनावधिसन्त्यक्तसमस्ताहारः कर्णावत्यां गतः । तत्र वन्दिता गुरवः, श्रुता धर्मदेशना । सुतानुसारेणोपलक्ष्य विचक्षणतयाऽभाणि श्रीगुरुभिः४४५. कुलं पवित्रं जननी कृतार्था, वसुन्धरा भाग्यवती च तेन ।
अवाह्यमार्गे श्रुतसिन्धुमग्नं, लग्नं परब्रह्मणि यस्य चेतः ॥ 5 ४४६. कलङ्कं कुरुते कश्चित् कुलेऽपि विमले सुतः ।
धननाशकरः कश्चिद् व्यसनैः पुण्यनाशनैः ॥ ४४७. पित्रोः सन्तापकः कश्चिद यौवने प्रेयसीमुखः ।
बाल्येऽपि म्रियते कोऽपि स्यात् कोऽपि विकलेन्द्रियः ॥ ४४८. सर्वाङ्गसुन्दर: किन्तु ज्ञानवान् गुणनीरधिः ।
___ 10 श्रीजिनेन्द्रपथाध्वन्यः प्राप्यते पुण्यतः सुतः ॥ इति श्रीगुरुमुखादाकर्ण्य सञ्जातप्रमोदः प्रसन्नचित्तश्चाचिगः । तत्र श्रीगुरुपादारविन्दनमस्यायै समायातेनोदयनमन्त्रिणा धर्मबान्धवधिया निजगृहे नीत्वा गुरुगौरवेन भोजयाञ्चक्रे । तदनु चाङ्गदेवं तदुत्सङ्गे निवेश्य पञ्चाङ्गप्रसादपूर्वकं दुकूलत्रयं द्रव्यलक्षत्रयं चोपनीय सभक्तिकमावर्जितश्चाचिगः सानन्दं मन्त्रिणमवादीत्-'मन्त्रिन् ! क्षत्रियमूल्ये- 15 ऽशीत्यधिकसहस्रम् १०८०, अश्वमूल्ये पञ्चाशदधिकानि सप्तदशशतानि १७५०, सामान्यस्यापि वणिजो मूल्ये नवनवति ९९ गजेन्द्रा एतावता नवनवतिलक्षा भवन्ति । त्वं तु लक्षत्रयमर्पयन् स्थूललक्षायसे । अतो मत्सुतोऽनय॑स्त्वदीया भक्तिस्त्वनय॑तमा । तदस्य मूल्ये सा भक्तिरस्तु, न तु मे द्रव्येण प्रयोजनमिति शिवनिर्माल्यवदस्पृश्यो मे । दत्तो मया पुत्रो भवताम्'- इति चाचिगवचः श्रुत्वा प्रमुदितमना मन्त्री तं परिरभ्य, साधु 20 साधु ! युक्तमेतदिति वदन् पुनस्तं प्रत्युवाच- 'त्वयाऽयं पुत्रो ममार्पितो योगिमर्कट इव सर्वेषामपि जनानां नमस्कारं कुर्वन् केवलमपमानपात्रं भविता, परं श्रीगुरूणां समर्पितः श्रीगुरुपदं प्राप्य बालेन्दुरिव महतां महनीयो भवतीति विचार्यतां यथोचितम्' । ततः स 'भवद्विचार एव प्रमाणमिति वदन् सकलश्रीसङ्घसमक्षं रत्नकरण्डमिव रक्षणीयं उदुम्बरपुष्पमिव दुर्लभं तं पुत्रं क्षमाश्रमणपूर्वकं श्रीगुरूणां समर्पयामास । श्रीगुरुभिरभाणि- 25 ४४९. धनधान्यस्य दातारः सन्ति क्वचन केचन ।
पुत्रभिक्षाप्रदः कोऽपि दुर्लभः पुण्यवान् पुमान् ॥
1. B कुलेऽतिविमले ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org