________________
१७०
कुमारपालचरित्रसङ्ग्रहः
'ब्राह्मे मुहूर्ते उत्तिष्ठेत्०' प्रारभ्य इत्याहोरात्रिकीं चर्यां यावत् श्रीयोगशास्त्रतृतीयप्रकाशमध्यात् वाच्यं दिनचर्यास्वरूपं चेति ।
५८. अन्यदा श्रीहेमचन्द्रगुरोर्लोकोत्तरैर्गुणैपरहृदयो नृपतिरुदयनमन्त्रिणं सभायां पप्रच्छ –‘यत् ईदृशं पुरुषरत्नं [कस्मिन् ] समस्तवंशावतंसे वंशे देशे 5 समस्तपुण्यप्रदेशे निःशेषगुणाकरे नगरे च समुत्पन्नमिति ।' नृपादेशादनु स मन्त्री जन्मप्रभृति तच्चरित्रं पवित्रमाह- अर्द्धाष्टमनामनि देशे धुन्धुकाभिधाने नगरे श्रीमन्मोढवंशे चाचिगनामा व्यवहारी सती जनमतल्लिका जिनशासने देवीव तस्य सधर्मचारिणी पाहिणी नाम्नीति । तयोः पुत्रश्चामुण्डागोत्रजायाः आद्याक्षराङ्केन चाङ्गदेवनामा समजनि, प्रवरभाग्यसौभाग्यपवित्रः गर्भे पुष्पितसहकारी गृहाङ्गणात् 10 पौषधशालायां फलितः इति स्वप्नसूचितः । स चाष्टवर्षदेशीयः श्रीदेवचन्द्राचार्येषु श्रीपत्तनात् तीर्थयात्रायै प्रस्थितेषु धुन्धुक्कके श्रीमोढवसहिकायां देवनमस्करणार्थं प्राप्तेषु सिंहासनस्थिततदीयनिषद्यायां सहसा निषण्णः सवयोभिः शिशुभिः समं धर्मदेशनादिकां क्रीडां कुर्वाणस्तैर्व्याघुट्यमानैर्दृष्टः । तदङ्गप्रत्यङ्गानां जगद्विलक्षणानि लक्षणानि निरीक्ष्य चिन्तितम्-यद्ययं क्षत्रियकुले जातस्तदा सार्वभौमो नरेन्द्रः, यदि वणिग्- विप्रकुले तदा 15 महामात्यः । चेद् दीक्षां गृह्णाति तदा युगप्रधान इव तुर्ये युगे कृतयुगमवतारयतीति । ततस्तत्पित्रोस्तस्य च नामादिकं शिशुभ्योऽधिगम्य तन्नगरनिवासि श्रीसङ्घ मेलयित्वा तत्स्वरूपं निरूप्य, तस्य गृहे गताः श्रीसूरयः । चाचिगे ग्रामान्तरगते मात्रा भाग्ययोगेन गृहागतः श्रीसङ्घः स्वागतकरणादिना तोषितः । मम पुत्रार्थमायातः श्रीसङ्घः इति हर्षाश्रूणि मुञ्चन्ती स्वं रत्नगर्भं मन्यमानापि विषण्णा । यतस्तत्पिता सुतरां मिथ्यादृष्टिः; 20 परं तादृशोऽपि ग्रामे नास्ति । तर्हि मया किं कर्त्तव्यमिति क्षणं मूढचित्ताऽभूत् । ततः प्रत्युत्पन्नमतिर्माता श्रीसङ्खेन समं श्रीगुरून् कल्पतरूनिव गृहायातान् ज्ञात्वाऽवसरज्ञा स्वजनानामनुमतिं लात्वा निजं पुत्रं श्रीगुरुभ्यो ददौ । ततः श्रीगुरुभिः श्रीसङ्घसमक्षं- 'हे वत्स ! श्रीतीर्थंकर-चकवर्त्ति - गणधरैरासेवितां सुरासुरनरनिकरनायकमहतीं मुक्तिकान्तासङ्गमदूर्ती दीक्षां त्वं लास्यसि ?' - इति प्रोक्ते स च बालकुमारकः प्राग्भवचारित्रा25 वरणीयकर्मक्षयोपशमेन संयमश्रवणमात्रसञ्जातपरमवैराग्यः सहसा ओमित्युवाच । ततो मात्रा स्वजनैश्चानुमतं पुत्रं संयमानुरागपवित्रं लात्वा श्रीतीर्थयात्रां विधाय कर्णावतीं जग्मुः श्रीगुरवः । तत उदयनमन्त्रिगृहे तत्सुतैः समं बालकधारकैः पाल्यमानः सकलसङ्घलोकमान्यः संयमपरिणामधन्यः वैनयिकादिगुणविज्ञो यावदास्ते तावता ग्रामान्तरादा
―
Jain Education International
-
1. B समस्तपुण्यप्रदेशे देशे । 2. B च कस्मिन् समु० । 3. B शासनदेवीव । 4 B प्राप्तेषु पौषधशालायां सिंहा० । 5. B तत्र |
—
For Private & Personal Use Only
www.jainelibrary.org