________________
10
कुमारपालप्रबोधप्रबन्धः।
१९३ ततोऽङ्गरक्षकेणागत्योदयनस्वरूपे प्रोक्ते तज्जयेष्ठपुत्रो बाहडोऽभिग्रहचतुष्टयं जग्राह निजपितुः । ततो बाहड: स्वभ्रातुराम्बडस्य दण्डनायकत्वमदापयत् । स्वयं राजादेशेन पैतृकवैरेण च ससैन्यः पुनः सुराष्ट्रायां गत्वा वैरिणं समरनृपं रणाङ्गणे निर्जित्य श्रीपत्तने श्रीकुमारपालनरेश्वराय गजाश्वभाण्डागारसहितं तन्मस्तकं समर्पयामास । तदनु राज्ञा तन्मस्तकं वंशे बद्ध्वा सर्वत्र देशमध्ये भ्रामितं चोक्तं च- 'यः प्रच्छन्नं जीववधं 5 करिष्यति तस्य शिरछेदो भविष्यति'।
ततो राजाज्ञामादाय श्रीरवतके त्रिषष्टिलक्षद्रव्यव्ययेन नवीनां सुगमां पद्यामकारयत्, अम्बिकाप्रक्षिप्तमार्गेण ।
महतोपक्रमेण वर्षद्वयेन श्रीशत्रुञ्जयप्रासादोद्धारे निष्पन्ने वर्धापनिकापुरुषस्य द्वात्रिंशत्वस्वर्णजिह्वा दत्ताः । यतः
५०४. भवन्ति भूरिभिर्भाग्यैर्धर्मकर्ममनोरथाः ।
____ फलन्ति यत्पुनस्तेऽपि तत् सुवर्णस्य सौरभम् ॥ विद्युत्पाताद्विदीर्णे पुनः कथकपुरुषस्य द्विगुणा वर्धापनिका । अस्मासु जीवत्सु चेद्विदीर्णस्तदा भव्यं जातम्, पुनरपि द्वितीयमुद्धारं करिष्याम इति । ५०५. प्रारभ्यते न खलु विध्नभयेन नीचैः,
प्रारभ्य विध्नभयतो विरमन्ति मध्याः । विध्नैः सहस्रगुणितैः प्रतिहन्यमानाः;
प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ ऎवं विमृश्य भूपमापृच्छय महं कपर्दिने श्रीकरणमुद्रां नियोज्य तुरङ्गमाणां चतुर्भिः सहस्रैः श्रीशत्रुञ्जयं प्राप । तत्र बाहडपुरनगरं न्यास्थात् । सभ्रमतीयुते प्रासादे पवनः प्रविष्टो न 20
1. B उक्तं । 2. B द्वात्रिंशद् रूप्यदन्तयुताः स्वर्ण० । 3. B विद्युद्धातात् समुद्रवाताद्विदीर्णे प्रासादे पुनः ।
★ एवं इत्यत आरभ्य ‘इति तीर्थोद्धारप्रबन्धः' इत्येतत्पर्यन्तपाठस्थाने B प्रतावयं पाठःएवं वारद्वयेऽपि द्वे कोटी सप्तनवतिलक्षयुता (ते) क्षव्ययना (अत्र व्ययिते ?)
श्री शत्रुञ्जयस्योपत्यकायां बाहडपुरं नगरं न्यास्थात् । तत्र नृपतिपितुर्नाम्ना त्रिभुवनपालविहारे श्रीपार्श्वनाथं स्थापितवान् । तीर्थपूजाकृते चतुर्विंशत्यारामान्, नगरपरितो वप्रं देवकुलस्य ग्रासावासादिकं च कारयामास । प्रासादे कलशध्वजप्रतिष्ठायां श्रीपत्तनादिश्रीसद्धं निमन्त्रणापूर्वमानीय महता महेन १२११ सर्वमकारयन् स्नात्रपूजारात्रिकावसरे कश्चित् कविः
किं कृतेन न यत्र त्वं, यत्र त्वं किमसौ कलिः । कलौ चेद्भवतो जन्म, कलिरस्तु कृतेन किम् ? ॥१॥ लक्षमुचितदानम् ।
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org