SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १९४ कुमारपालचरित्रसङ्ग्रहः निर्यातीति, स्फुटनहेतुं शिल्पिभिनिर्णीय भ्रमतीहीनेषु प्रासादेषु निरन्वयताकारणं ज्ञात्वा मदन्वयाभावे धर्मसन्तानमेवास्तु, पूर्वोद्धारकारिणां श्रीभरतादीनां पङ्क्तौ नामास्तु; यतः त्वरितं किङ्कर्त्तव्यं विदुषा संसारसन्ततिच्छेदः । इति दीर्घदर्शिन्या बुद्ध्या विमृश्य भ्रमतीभित्तौ अन्तरालं शिलाभिर्निचितं विधाय वर्षत्रयेण 5 निष्पन्ने प्रासादे कलश-दण्डप्रतिष्ठायां श्रीपत्तनसङ्ख निमन्त्र्यानीय महता महेन संवत् १२११ वर्षे ध्वजाधिरोपं मन्त्री कारयामास । शैलमयबिम्बस्य मम्माणीसत्कपरिकरमानीय निवेशितवान् । श्रीबाहडपुरे नृपतिपितुर्नाम्ना त्रिभुवनपालविहारे श्रीपार्श्वनाथं स्थापितवान् । तीर्थपूजाकृते चतुविशत्यारामान्, नगरपरितो वप्रम्, देवलोकस्य ग्रासावासमुख्यं सर्वं कारयामास । अस्य तीर्थोद्धारस्य व्यये द्विकोटी सप्तनवतिलक्षयुता 10 व्ययिता वारद्वयं मेलयित्वा ।। पाठान्तरे-लक्षसप्तकयुता कोटी व्ययिता यत्र मन्दिरे । स श्रीवाग्भट्टदेवोऽत्र वर्ण्यते विबुधैः कथम् ॥ इति तीर्थोद्धारप्रबन्धः । ६६८६. अथो विश्वविश्वैकसुभटेन आम्बडेन स्वपितुः पुण्यार्थं शकुनिका15 विहारस्य भृगुकच्छे जीर्णोद्धारे कार्यमाणे रात्रौ नर्मदादेवी मिथ्यादृष्टिर्दिननिर्मितं पातयति, सर्वः कोऽपि तत्र बिभेति । अन्यदा आम्बड: स्वं बलिं प्रकल्प्य तत्र रात्रौ स्थितः । समायाता देवी । तत्साहसेन तुष्टा सती प्रासादकरणे साहाय्यमकरोत् । ततः सम्पूर्णे निष्पन्ने प्रासादे कलश-ध्वजप्रतिष्ठासमये श्रीहेमसूरिः श्रीकुमारपालः सपरिकरः श्रीपत्तनादिबहुग्रामनगरश्रीसङ्घः समैयरुः । अशन-वसन-भूषणादिदानैः श्रीसद्धं सत्कृत्य, 20 ध्वजाधिरोपाय सञ्चरन्, अर्थिभिः स्वं मन्दिरं मुषितं कारयित्वा, सुमुहूर्ते कलशरोपण ध्वजारोहणादि कृत्वा, हर्षोत्कर्षात्तत्र लास्यं विधाय, आरात्रिकं गृह्णन्, राज्ञा कृतमङ्गलतिलकः स्वयं राज्ञा पुनः पुनः प्रेर्यमाणः, द्वासप्ततिसामन्तैश्चामरपुष्पवर्षादिभिः कृतमहोत्सवः, प्रदत्तकङ्कणकुण्डलहारगजाश्वादिमहादानः, बाहुभ्यां धृत्वा बलात्कारेण नृपेणावतार्यमाणारात्रिकमङ्गलप्रदीपः श्रीसुव्रतस्वामिनः श्रीगुरोश्चरणौ प्रणम्य सार्मिक25 वन्दनां कृत्वा, नृपति सत्वरारात्रिकहेतुं पप्रच्छ । राजा प्राह- 'मन्त्रिन् ! यथा द्यूतकारो द्यूतरसातिरेकेण शिर:प्रभृतीन् पदार्थान् पणीकुरुते, तथा भवानपि सर्वं दत्त्वा मा 1. B अथोदयनपुत्रेण आम्ब० । 2. B ०पालनृपः स । ★ 'अशन' इत्यत्र आरभ्य 'कारयित्वा' इत्येतत्पर्यन्तः पाठ: B पस्तके नोपलभ्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002501
Book TitleKumarpalcharitrasangraha New Publication of Shrutaratnakar
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year2008
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy