Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
क्रिया-कलापे
orrrrrrrrrrr
____टीका-धर्मः-चारित्रमुत्तमक्षमादिश्च तत्र चारित्रस्य प्रस्तुतत्वादिह ग्रहणं धर्मश्चारित्रं सर्वसुखाकरः-सर्वसुखानां स्वर्गापवर्गादिसुखानामाकरमुत्पत्तिस्थानं । तथा हितकरः-हितस्य परिणामपथ्यस्य पुण्यस्य जनकः । यत एवंविधो धर्मो तं धर्म बुधाः-परमविवेकसम्पन्ना. स्तीर्थकरादयः, चिन्वते उपचयं नयन्ति मोक्षमार्गप्राप्त्यर्थं पुष्टमनुतिष्ठन्तीत्यर्थः । यतो धर्मेणैव समाप्यते-सम्यक्प्राप्यते शिवसुखं-मोक्षसुखं । तस्मै एवं विधाय धर्माय नमः । धर्मान्नास्त्यपरः सुहृद्भवभृता-सुहृदुपकारको भवभृतां संसारिणां धर्मात्सकाशात्परोऽन्यो नास्ति । इत्थंभूतस्य धर्मस्य मूलं कारणं दया-करुणा निर्दयस्य धर्मलेशम्याप्यसंभवात् । एवंविधे च धर्मे प्रतिदिनमहं चित्तं दधे-धरामि तत्र दत्तावधानो भवामि । त्वयि चित्तं दधानं च मां हे धर्म ! पालय-संसारमहार्णवे पतन्तं रक्ष ॥ ७॥
इदानीं धर्मादीनां मंगलादीनां हेतुतया परममंगलत्वं प्ररूपयन्नाह धम्म इत्यादि
धम्मो मंगलमुक्किडं अहिंसा संयमो तवो। देवा वि तस्स पणमंति जस्स धम्मे सया मणो ८॥
टीका-धर्मः उक्तलक्षणः, मंगलं-मलं पापं गालयति विध्वं. सयति वा मंगलं मंगं वा परमसुखं लाति आदत्त इति मंगल, उक्किट्ठउत्कृष्टमनुपचरित परमं । न केवलं धर्म एव मंगलमपि तु अहिंसा संयमस्तपश्च । न केवलं मलगालनहेतुरेवायमपि तु पूजादिहेतुरपि यतः देवावि तस्स पणमंति जस्स धम्मे सया मणो देवा अपि तस्य प्रणमन्ति यस्य धर्मे सदा मनः ।। ॥
For Private And Personal Use Only

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358