Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri

View full book text
Previous | Next

Page 288
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शान्ति-भक्तिः। शान्ति-भक्ति। शांतिजिन शशिनिर्मलवक्त्रं शीलगुणव्रतसंयमपात्रं । अष्टशतार्चितलक्षणगात्रं नौमि जिनोत्तममंबुजनेत्रम् ॥१॥ टीका-शांतिजिनमित्यादि । नौमि । कं ? शांतिजिनं । कथंभूतं ? १ शशिनिर्मलवक्त्रं । शशी पूर्णिमाचंद्रः तद्वन्निर्मलं वा मुखं यस्य । शीलगुणवतसंयमपात्रं-शीलानि च गुणाश्च व्रतानि च संयमश्च तेषां पात्रं भाजनं । अष्टशतार्चितलक्षणगावं-अष्टभिरधिकेन शतेन परिमितानि अर्चितानि पूज्यानि लक्षणानि गात्रे यस्य । जिनोत्तम देशजिनेभ्य उत्कृष्ट । अंबुजनेत्रं पद्मपत्रविशालाक्षं ॥१॥ गृहस्थावस्थायां यत्यवस्थायां च कीदृशगुणसंपन्न तमेत्याहपंचममीप्सितचक्रधराणां पूजितमिन्द्रनरेंद्रगणैश्च । शान्तिकरं गणशांतिमभीप्सुः षोडशतीर्थकर प्रणमामि ॥२॥ टीका-पंचममित्यादि-ईप्सितचक्रधराणां अभिमतद्वादशचक्रवर्तिनां मध्ये गृहस्थावस्थायां पंचमं चक्रवर्तिनम् शान्तिजिनं प्रणमामि । यत्यवस्थायां तु षोडशतीर्थकरं। कथंभूतं ? पूजितं । कैः ? इंद्रनरेन्द्रगणैश्च इंद्रचक्रवर्तिसंघातैरपि । तथा शान्तिकरं अनन्तसुखप्राप्तिजनकं । तथा अभीप्सु प्राप्तुमिच्छ शान्तिजिनं । कां ? गणशान्ति-गणस्य चतुर्विधसंघस्य संबंधिनी शान्ति संसारोपरति रागायुपशमं वा । यदि वा अहं तां अभीप्सुः शान्तिजिनं प्रण, मामि ॥२॥ अष्टमहाप्रातिहाथैः शोभमानत्वं तस्य स्तुवन्नाहदिव्यतरुः सुरपुष्पसुवृष्टिदुन्दुमिरासनयोजनघोषौ । आतपवारणचामरयुग्मे यस्य विभाति च मंडलतेजः ॥३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358