Book Title: Kriya Kalap
Author(s): Pannalal Shastri
Publisher: Pannalal Shastri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चैत्यभक्तिः
Acharya Shri Kailassagarsuri Gyanmandir
यत्र । रवींदुकुलिशादिपुण्यबहुल क्षणालकृतं -- रविरादित्य इंद्रश्चंद्रः कुलिशं वज्र' एतान्यादिर्येषां तानि च तानि पुण्यानि च प्रशस्तानि बहूनि व अष्टोत्तरशतसंख्यानि लक्षणानि च तैरलंकृतं भूषितं । दिवाकरसहस्रभासुरमपरीक्षणानां प्रियं - दिवाकराणां सहस्रं तद्वद्भासुरमपि दीप्तमपि ईक्षणानां लोचनानां प्रियं वल्लभं ॥ ३३ ॥
हितार्थपरिपंथिभिः प्रबलरागमोहादिभिः कलंकितमना जनो यदभिवीक्ष्य शोशुध्यते । सदाभिमुखमेव यज्जगति पश्यतां सर्वतः शरद्विमलचंद्र मंडल मिवोत्थितं दृश्यते ||३४||
२३१
टीका - हितार्थेत्यादि । यद्र पं अभि अभिमुखं समन्ताद्वा वीच्य विलोक्य | शोशुध्यते अतिशयेन शुद्धो भवति । कोसौ ? जनः । कथंभूतः ? कलंकितमनाः कलंकितं मलिनीकृतं मनो यस्य । कै: ? प्रबलराममोहादिभि: प्रकृष्टं बलं सामर्थ्यं येषां ते प्रबला रागश्च मोहश्च तावादिर्येषां द्वशेषादीनां । प्रबलाश्च ते रागोहादयश्च तैः । कथंभूतैः १ हितार्थपरिपंथिभिः हितश्चासौ [अर्थश्च मोक्षस्तस्य परिपंथिनो प्रहारिणश्चौराः इत्यर्थः तैः । सदा श्रभिमुखमेव यज्जगति पश्यतां सर्वतः सदा सर्वदा, श्रभिमुखमेव सन्मुखमेव । कथं ? सर्वतः सर्वासु दिनु यद्रपं दृश्यते । केषां ? पश्यतां । क ? जगति । किमिव ? शरद्विमलचंद्र मंडलमिव - शरदि शरत्काले विमलं विनष्टं घनपटलकलंकं तच तच्चंद्रमंडलं च चंद्रबिंबं तदिव उत्थितं उदितं ॥ ३४ ॥
तदेतदमरेश्वरप्रचलमौलिमालामणिस्फुरत्किरणचुंबनीयचरणारविन्दद्वयम् । पुनातु भगवज्जिनेंद्र ! तव रूपमन्धीकृतं जगत्सकलमन्यतीर्थ गुरुरूपदोषोदयैः ||३५||
For Private And Personal Use Only

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358