SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चैत्यभक्तिः Acharya Shri Kailassagarsuri Gyanmandir यत्र । रवींदुकुलिशादिपुण्यबहुल क्षणालकृतं -- रविरादित्य इंद्रश्चंद्रः कुलिशं वज्र' एतान्यादिर्येषां तानि च तानि पुण्यानि च प्रशस्तानि बहूनि व अष्टोत्तरशतसंख्यानि लक्षणानि च तैरलंकृतं भूषितं । दिवाकरसहस्रभासुरमपरीक्षणानां प्रियं - दिवाकराणां सहस्रं तद्वद्भासुरमपि दीप्तमपि ईक्षणानां लोचनानां प्रियं वल्लभं ॥ ३३ ॥ हितार्थपरिपंथिभिः प्रबलरागमोहादिभिः कलंकितमना जनो यदभिवीक्ष्य शोशुध्यते । सदाभिमुखमेव यज्जगति पश्यतां सर्वतः शरद्विमलचंद्र मंडल मिवोत्थितं दृश्यते ||३४|| २३१ टीका - हितार्थेत्यादि । यद्र पं अभि अभिमुखं समन्ताद्वा वीच्य विलोक्य | शोशुध्यते अतिशयेन शुद्धो भवति । कोसौ ? जनः । कथंभूतः ? कलंकितमनाः कलंकितं मलिनीकृतं मनो यस्य । कै: ? प्रबलराममोहादिभि: प्रकृष्टं बलं सामर्थ्यं येषां ते प्रबला रागश्च मोहश्च तावादिर्येषां द्वशेषादीनां । प्रबलाश्च ते रागोहादयश्च तैः । कथंभूतैः १ हितार्थपरिपंथिभिः हितश्चासौ [अर्थश्च मोक्षस्तस्य परिपंथिनो प्रहारिणश्चौराः इत्यर्थः तैः । सदा श्रभिमुखमेव यज्जगति पश्यतां सर्वतः सदा सर्वदा, श्रभिमुखमेव सन्मुखमेव । कथं ? सर्वतः सर्वासु दिनु यद्रपं दृश्यते । केषां ? पश्यतां । क ? जगति । किमिव ? शरद्विमलचंद्र मंडलमिव - शरदि शरत्काले विमलं विनष्टं घनपटलकलंकं तच तच्चंद्रमंडलं च चंद्रबिंबं तदिव उत्थितं उदितं ॥ ३४ ॥ तदेतदमरेश्वरप्रचलमौलिमालामणिस्फुरत्किरणचुंबनीयचरणारविन्दद्वयम् । पुनातु भगवज्जिनेंद्र ! तव रूपमन्धीकृतं जगत्सकलमन्यतीर्थ गुरुरूपदोषोदयैः ||३५|| For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy