________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Ah
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
एव दोषत्वात् प्रक्षीणमोहे च भगवति मोहविशेषात्मिकाया लज्जाया असंभवाच । पुनरपि कथंभूतं ? निरायुधसुनिर्भयं-आयुधं प्रहरणं तस्मान्निष्क्रान्तं तद्वा निष्क्रान्तं यस्मात् तन्निरायुधं, इत्थंभूतमपि सुनिर्भयं भयानिष्क्रान्तं भयं वा निष्क्रान्तं यस्मानिर्भयं सुष्ठु निर्भयं सुनिर्भयं । कुतः ? विगतहिंस्यहिंसाक्रमात् हिंस्यश्च हिंसा च तयोः क्रमोऽनुपरिपाटी विशेषेण गतो नष्टः स चासौ हिंस्यहिंसाक्रमश्ववध्यवधकक्रमः। यदि हि भगवता कस्यचित् हिंस्यस्य हिंसा विधीयते तदा तेनापि भगवतः सा विधीयते इति हिंस्यहिंसाक्रमः स्यान्न च भगवता कस्यचित्सा विधीयते परमकामणि कत्वात् । पुनरपि किंविशिष्टं तव रूपं ? निरामिषसुतृप्तिमत्--आमिषादाहारान्निष्क्रान्तं निरामिषं तदित्थंभूतमपि सुतृप्तिमत् शोभना इतरप्राणितृप्तिभ्यो विलक्षणा कवलाहाररहिता तृप्तिः सुतृप्तिः सा विद्यते यत्र तत्तद्वत् । कुतः ? विविधवेदनानां क्षयात्--विविधा नानाप्रकाराः सुत्पिपासादिजनिता वेदनाः पीडास्तासां क्षयादभावात् ॥ ३२ ॥ मितस्थितनखांगजं गतरजोमलस्पर्शनं
नवांबुरुहचंदनप्रतिमदिव्यगंधोदयम् । रवीन्दुकुलिशादिदिव्यबहुलक्षणालंकृतं
दिवाकरसहस्रभासुरमपीक्षणानां प्रियम् ॥३३॥ टीका-मितस्थितेत्यादि । अंग शरीरं तत्र जाता अंगजाः केशार, मिताः परिमिताः वृद्धिरहिताः नखा अंगजाश्च यत्र । यत्समये हि केवलज्ञानं उत्पन्न भगवतस्तत्समये यत्परिमाणा नखाः केशाश्च अग्रेऽपि तत्परिमाणा एव तिष्ठन्ति न पुनर्बद्धन्ते। गतरजोमलस्पर्शनं--रजः पांसुः तदेव मलं तेन स्पर्शनं संबंधो गतं नष्टं रजोमलस्पर्शनं यत्र । नवाम्बुरुहचंदनप्रतिमदिव्यगंधोदयं-नवं प्रत्ययं विकसितं तच्च तदंबुरुहं च अंबु पानीयं तत्र रोहति प्रादुर्भवति इत्यबुरुहं कमलं तच्च चंदनं च ताभ्यां प्रतिमः सदृशः दिव्योऽन्यजनशरीरासंभवी यो गंधस्तस्योदयः प्रादुर्भावो
For Private And Personal Use Only