________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैत्यभक्तिः।
येषु हि वृत्ताः शब्दा अवयवेषु वर्तन्ते इत्यभिधानात् । कुतो हेतोः ? कोपावेशात्ते अताम्र भविष्यतः इत्याह सकलकोपवर्जयात्-सकलो अनंतानुबंध्यादिभेदभिन्नः स चासौ कोपश्च स एव वह्निः संतापहेतुत्वात् तस्य जयात् क्षयकरणात् । पुनरपि कथंभूतं ? कटाक्षशरमोक्षहीनंकामोद्रेकादिष्टे प्राणिनि तिर्यग्दृष्टिपातः कटाक्षः स एव शरो मर्मवेधित्वात् तस्य मोक्षो मोचनं तेन होनं । कुतः १ अविकारतोद्रे कतः-अविकारता वीतरागता तस्या उद्र कतः परमप्रकर्षप्राप्तत्वात् । पुनरपि किंविशिष्टं ? प्रहसितायमानं सदा प्रहसितं इव आत्मानं आचरतीति प्रहसितायमानं । सदा सर्वकालं । कुतः ? विषादमदहानितः । विषादान्मदाच्च कदाचिदप्रसन्नता मुखे भवति, भगवति तु तयोरत्यंतप्रक्षयतस्तन्मु. खस्य सर्वदा प्रसन्नतोपपत्तेः प्रहसितायमानं सदा इत्युच्यते ।। ३१ ।। निराभरणभासुरं विगतरागवेगोदया
निरंबरमनोहरं प्रकृतिरूपनिर्दोषतः । निरायुधसुनिर्भय विगतहिंस्यहिंसाक्रमा
निरामिषसुतृप्तिमद्विविधवेदनानां क्षयात् ॥३२॥ टीका-पुनरपि कथंभूतं रूपं ? निराभरणभासुरं--प्राभरणेभ्यो निष्क्रांतं निराभरणं तच्च तद्भासुरं च भासनशीलं परमशोभासमन्वितं ।
आभारणशोभामपि कुतस्तन्न करोतीति चेत् विगतरागवेगोदयात्-रागस्य वेग आवेशस्तस्योदयो विशेषेण गतो नष्टः स चासौ रागवेगोदयश्च तस्मात् । निरम्बरमनोहरं-अम्बरेभ्यो वस्त्रेभ्यो निष्क्रान्तं निरंबरं तच्च तन्मनोहरं च मनोक्षं । कस्मात्तदम्बराण्यपि नादत्ते इत्याह प्रकृतिरूपनिर्दोषत:--प्रकृतिरूपं सहजरूपं तत्र निर्दोषतः रागादिदोषासंभवात् । अनेन विशेषणद्वयेन श्वेतपटाः भगवतः कुंडलाद्याभरणं देवांगवस्त्रादिपरिधानं च परिकल्पयंतः प्रत्युक्ताः । ननु निर्दोषत्वेऽपि लज्जाप्रच्छादनार्थं वस्त्रग्रहणं भगवतो न विरुद्धमित्यप्यनुपपन्न लज्जाया
For Private And Personal Use Only