________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रियाकलापे
ommiumar
किमर्थं ? कलिकलुषमलापकर्षणार्थ-कलौ दुःषमकाले कलुषं कर्म यदु. पार्जितं तदेव मलं आत्मस्वरूपप्रच्छादकत्वात्तस्यापकर्षणार्थं स्फेटनार्थ । अमेयं महत् ।। २६ ॥
अवतीर्णवतः स्नातुं ममापि दुस्तरसमस्तदुरितं दूरम् । व्यपहरतु परमपावनमनन्यजय्यस्वभावभावगभीरम् ॥३०॥
टीका-तत्तीर्थ ममापि दुस्तरसमस्तदुरितं दुस्तरं अनवगायपारं तच्च तत्समस्तं च निरवशेष दुरितं च कर्म दरमपुनरावृत्तं यथा भवत्येवं । व्यपहरतु विशेषेण निर्मूलतोऽपहरतु स्फेटयतु । किंविशिष्टस्य मम ? अवतीर्णवतः तीर्थे अनुप्रविष्टस्य । किमर्थं ? स्नातुकर्ममलं प्रक्षालयितुं । किंविशिष्टं तीर्थं? परमपावनं परमं सर्वाधिनायकत्वातू, पावनं सर्वदोषापहारकत्वात् । अनन्यजय्यस्वभावभावगभीरंअन्यैः परवादिभिः जेतु शक्या अन्यजय्या न अन्यजय्या अनन्यजय्याः स्वभावाः स्वरूपाणि येषां ते च ते भावाश्च जीवादयः तैर्गभीरं अगाधं ॥ ३०॥
पृथ्वी-छंदः । अताम्रनयनोत्पलं सकलकोपवर्जया
स्कटाक्षशरमोक्षहीनमविकारतोद्रेकतः । विषादमदहानितः प्रहसितायमानं सदा
मुखं कथयतीव ते हृदयशुद्धिमात्यन्तिकीम् ॥३१॥ टीका--जिनेन्द्ररूपं पुनाविति संबंधः । यत्र रूपे मुखं कथयतीव प्रकटयतीव । ते तव । हृदयशुद्धिं हृदयं चित्तं ज्ञानमित्यर्थः तस्य शुद्धिं निर्मलतां प्रतिबंधकहानिं । किविशिष्टां ? आत्यन्तिकी अन्तमतिक्रान्तः कालः अत्यन्तः तस्मिन्भवां क्षायिकत्वेन हि तद्विशुद्धेर्न कदाचिदंतो भवति । कथंभूतं मुखं ? अताम्रनयनोत्पलं-ईषत्तानं अताम्र ते च ते नयने च ते एव उत्पले यत्र उत्पलशब्देनात्र उत्पलपत्रे गृयते । समुदा
For Private And Personal Use Only