________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैत्य-भक्तिः ।
२८७
मरणान्येव मकरप्रकरः शरीरायपायहेतुत्वात, अतिदूरं निरस्तो निक्षिप्तो मरणमकरप्रकरो निर्वाणप्राप्तिहेतुत्वाद्येन तत्तथोक्तं ॥२७॥
अथोच्यते तीर्थमनेकप्रकारपक्षिशब्दपुलिनजलावरोधजलनिर्गमध. मैंरुपेतं भवति, इदं तु तथा न भवष्यतीत्यत्राह
ऋषिवृषभस्तुतिमंद्रोद्रेकित निर्घोषविविधविहगध्यानम् । विविधतपोनिधिपुलिनं सास्रवसंवरणनिर्जरानिःस्रवणम् ॥२८॥
टीका-ऋषिवृषभेत्यादि-ऋषीणां वृषभाः गणधरदेवादयः, स्तुतिरूपाणि मन्द्राणि मनोज्ञानि उद्रेकितानि उत्कटशब्दितानि तानि च निर्घोषाश्च शास्त्रपाठाः स्तुतिमंद्रोद्रेकितनिर्घोषाः, ऋषिवृषभाणां स्तुतिमन्द्रोद्रेकितनिर्घोषास्त एव विविधा नाना प्रकरा विहगध्वानाः पक्षिशब्दाः यत्र । विविधतपोनिधिपुलिनं-विविधानि च बहुप्रकाराणि तपांसि निधीयते येषु ते विविधतपोनिधयो मुनिवराः त एव पुलिनं संसारसरित्प्रवाहे प्रवहतां तदुत्तरणस्थानं यत्र । सास्रवसंवरणनिर्जरानिःस्रवणं-आस्रवणं आस्रवः कर्मागमनं तस्य संवरणं निवारणं यथा प्रविशतो जलस्य अवरोध इति, निर्जरा उपात्तकर्मणां निर्जरणं सैव निःसरणं यथोपात्तस्य जलस्य निर्गमः इति, आस्रवसंवरणं च निर्जरानिःस्रवणं च ताभ्यां सह वर्तते इति सानवसंवरणनिर्जरानिःस्रवणं ॥२८॥
गणधरचक्रधरेन्द्रप्रभृतिमहामव्यपुंडरीकैः पुरुषैः । बहुमिःम्नातं भक्त्या कलिकलुषमलापकर्षणार्थममेयम् ॥२९॥
टीका-गणधरेत्यादि । तदित्थंभूतं तीर्थं पुरुषैर्बहुभिः स्नातं स्नान्त्यस्मिन्निति स्नातं । किंविशिष्टैस्तैः ? गणधरचक्रधरेन्द्रप्रभृतिमहाभव्यपुण्डरीकैः-गणधराश्च चक्रधराश्च इन्द्राश्च ते प्रभृतय आयाः येषा ते च ते महान्तश्च ते भव्यपुण्डरीकाश्च भव्यानां प्रधानाः, यदि वा महाभव्याश्च ते पुण्डरीकाश्चेति विग्रहः तैः । कया स्नातं ? भत्त्या।
For Private And Personal Use Only