SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८६ www.kobatirth.org क्रिया-कलापे Acharya Shri Kailassagarsuri Gyanmandir अथोच्यते तीर्थमावर्तपुष्पितलतात रंगोपेतं भवति तदुपेतत्वं चात्र न भविष्यतीत्याहक्षान्त्यावर्त सहस्रं सर्वदयाविकचकुसुमविलसल्लतिकम् । दुःसहपरीषहाख्यद्रुततररंगतरंगभंगुर निकरम् ॥ २६ ॥ टीका - क्षान्त्यावर्तेत्यादि । क्षांतयः क्षमाः सहिष्णुतास्ता एव आवर्तसहस्राणि यत्र । सर्वदयाविकच कुसुमविल सल्लतिक— सर्वेषु प्राणिषु दया सर्वदया सैव विकचकुसुमविलसल्लतिका यत्र । विकचानि विकसि तानि च तानि कुसुमानि च तैर्विलसन्त्यश्च ताः लतिकाच । दुःसहपरीपहाख्यद्रुततररंग तरंगभंगुर निकरं - दुःखेन महता कष्टेन सान्ते इति दुःसहाः ते च ते परीषहाख्याश्च परीषह इत्याख्या संज्ञा येषां चुत्पिपासादीनां त एव द्रुततराः शीघ्रतरा रंगतरंगा रंगन्तस्तिर्यक्प्रसरन्तस्ते च ते तरंगाश्च तेषां भंगुरो विनश्वरो निकरः संघातो यत्र ।। २६ ।। ननु फेनशैवल कर्दममकरविवर्जितं तीर्थं भवति त्र्यं, इदं च तद्विवर्जितं न भविष्यतीत्याह व्यपगत कषायफेनं रागद्वेषादिदोषशैवलरहितं । अत्यस्तमोह कई ममतिदूर निरस्तमरणमकरप्रकरम् ||२७|| टीका - व्यपगतेत्यादि - - व्यपगतकषायफेनं कषाया एव फेनः स्वच्छात्मस्वरूपस्य कालुष्यहेतुत्वात् विशेषेण अपगतो नष्टः स यत्र यस्माद्वा । रागद्वेषादिदोषशैवलरहितं रागद्वेषौ आदिर्येषां मोहादीनां ते च ते दोषाश्च त एव शैवलो व्रतिनां पातनहेतुत्वात् स्वच्छात्मस्वरूपजलस्य कालुष्यकारणत्वाच्च तै रहितं । त्यस्तमोहकर्दमं-- अत्यस्तो मोह एत्रकर्द्दमः स्वपरपरिच्छेदकस्य जीवस्वरूप स्वच्छ जलस्य व्यामोह - लक्षणकालुष्यकार णत्त्रात् मोहकर्दमो येन सत्यस्तमोहकर्दमः । - दूरनिरस्तमरणमकरकरं मकराणां प्रकरोऽविच्छिन्नः संततिविशेषो For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy