SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चैत्यभक्तिः । Acharya Shri Kailassagarsuri Gyanmandir २८५ च कुहकतीर्थं श्रतिक्रान्तं लौकिकं कुहकतीर्थं येन । यत्तीर्थं भवति तत्तीर्थं यात्रिकाणां पृथ्वीतलवर्तिनां कतिपयानां किल दुरितस्य शरीरमलस्य च प्रक्षालनकारणं भवति इदं त्वन्महानदस्योत्तमतीर्थं त्रिभुव नवर्तिनां भव्यजनानां तीर्थयात्रिकाणां दुरितस्य पापकर्मण: प्रक्षालने स्फेटने एकमद्वितीयं कारणं ॥ २३ ॥ ननु तीर्थ: प्रतिदिनं वहत्प्रवाहो भवति स चात्र न भविष्यतीत्याहलोकालोकसुतत्वप्रत्यवबोधनसमर्थ दिव्यज्ञान प्रत्यवहृत्प्रवाहं व्रतशीला मलविशालकूल द्वितयम् ॥ २४ ॥ टीका-लोकालोकेत्यादि । लोकश्च अलोकश्च तयोः शोभनं तत्त्वं स्वरूपं शोभनानि वो तत्त्वानि जीवादीनि तस्य तेषां वा प्रति समन्तात् प्रत्येकं वा अवबोधनं परिच्छित्तिः तत्र समर्थानि च तानि दिव्यज्ञानानि च केवलज्ञानानि मत्यादिसम्यग्ज्ञानानि वा तान्येव प्रत्यहं प्रतिदिनं वहत्प्रवाहो यत्र । तर्हि कूलद्वयं तीर्थे भवति तदत्र न भविष्यतीत्याह व्रतशीलामलविशाल कूलद्वतयं -- व्रतानि पंच शीलानि अष्टादशसहस्रसंख्यानि तान्येव मलं निर्दोषं विशालं विस्तीर्णं कूलद्वितयं तटद्वयं यस्य ॥ २४ ॥ ननु तीर्थं राजहंसैर्मनोज्ञघोषण सिकतासमूहेन च शोभां बिभर्ति न चेदं तथा भविष्यतीत्याह शुक्लध्यानस्तिमितस्थितराजद्राजहंसराजित मसकृत् । स्वाध्याय मंद्रघोषं नानागुण समिति गुप्तिसिकता सुभगम् ॥ २५ ॥ For Private And Personal Use Only टीका - शुक्लध्यानेत्यादि - शुक्लध्यानान्येव स्तिमितं स्थिरं यथाभवत्येवं स्थिता राजन्तः शोभमानाः राजहंसा गणधरदेवादयस्तैः राजितं शोभितं । असकृत् सर्वदा । स्वाध्यायमंद्रघोषं शोभनो लाभपूजाख्यातिवर्जितः श्रध्यायः पाठः स्वाध्यायः स एव मंद्रो मनोज्ञो घोषो नादो यत्र । नानागुणाश्चतुरशीतिलक्षगुणास्ते च समितयश्च पंच गुप्तयश्च तिस्रः ता एव सिकतास्ताभिः सुभगं मनोज्ञम् || २५ ||
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy