SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८४ www.kobatirth.org क्रिया-कलापे- Acharya Shri Kailassagarsuri Gyanmandir 1 त्वात् तेषां तिरीटानि त्रिशिखरमुकुटानि तेषां अग्राणि तत्र मरणयः । यदि वा अग्राः प्रधानभूताः ते च ते मरणयश्च तेषां छाया दीप्तयः ताभिरभिषेचनं स्नपनं । कैः ? क्रमैरेव चरणैरेव । सर्वदा ते तत्पादेषु प्रणतो तमांगा इत्यर्थः । किमर्थं वंदे ? सिद्धिलब्धये मुक्तिप्राप्तये ॥ २१ ॥ इतीत्यादिना स्तुतेः स्तोता फलं प्रार्थयतेइति स्तुतिपथातीतश्रीभृतामहतां मम । चैत्यानामस्तु संकीर्तिः सर्वास्रवनिरोधनी ।। २२ ।। टीका - इत्येवमुक्तप्रकारेण यासौ संकीर्तिः संकीर्तनं स्तुतिः । केषां ? चैत्यानां । केषां संबंधिनां चैत्यानां ? अर्हतां । किंविशिष्टानां १ स्तुतिपथाततश्रीभृतां स्तुतेः पंथा मार्गः तमतीता सा चासौ श्री इन्द्रादिभिरपि या स्तोतुमशक्या अंतरंगा बहिरंगा च श्रीः तां बिभ्रति ये तेषां संकीर्तिः । मम सर्वावरोधिनी अस्तु मुक्तिप्रदा भवत्वित्यर्थः ॥ २२ ॥ स्कंदछन्दः अर्हन्महानदस्य त्रिभुवनभव्यजन तीर्थयात्रिकदुरितप्रक्षालनैककारणमतिलौकिक कुहकतीर्थमुत्तमतीर्थम् ॥ २३ ॥ टीका-- अर्हन्महानदस्येत्यादि । उत्तमतीर्थं दुरितं व्यपहरतु इति संबंधः । कस्य तीर्थं ? श्रर्हन्महानदस्य- महांश्चासौ नदश्च महानदः अर्हन्नेव महानदोऽर्हन्महानदः तस्य । पूर्वप्रवृत्तसरित्प्रवाहविपरीतप्रवाहो हि नदो भवति अपि पूर्वप्रवृत्तसंसार सरित्प्रवाहविपरीत प्रवाह त्वान्नद इत्युच्यते । भगवता च नदेन तुल्योऽन्यो नदो न संभवति ततो विशिष्टगुणोपेतत्वादिति महानद इत्युच्यते । तदेवास्य ततो विशिष्टगुणोपेतत्वं तत्तीर्थस्येतरतीर्थाद्विशिष्टत्वप्रदर्शनद्वारेण दर्शयति उत्तमतीर्थतीर्यते संसारसरिथेन तत्तीर्थं द्वादशांगचतुर्दशपूर्वी गलक्षणं भगवतो मर्त, उत्तममसाधारणं तच्च तत्तीर्थं च । कथमस्योत्तमत्वमिति चेत् अतिलौकिककुहकतीर्थं यतः, लोके भवं लौकिकं आश्चर्य प्रधानं दंभप्रधानं For Private And Personal Use Only
SR No.090257
Book TitleKriya Kalap
Original Sutra AuthorN/A
AuthorPannalal Shastri
PublisherPannalal Shastri
Publication Year1993
Total Pages358
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Religion, & Ritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy